पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रथमोद्योतः

लोचनम्

स्वयमव्युच्छिन्नपरमेश्वरनमस्कारसम्पत्तिचरितार्थोऽपि व्याख्यातृश्रोतॄणामविघ्नेना-

बालप्रिया

 अनुरणन् ब्रुवन् घण्टाऽऽदिनादस्थानीयस्य मूलकृद्वचनस्यानुरणनस्थानीयं व्याख्यानरूपं स्ववचनमित्यनेन प्रकाश्यते, स्वेति । लोच्यते दृश्यतेऽनेनेति लोचनं स्वस्य लोचनंमनः तस्य नितरां योजनया मनःप्रणिधानेनेत्यर्थः , काव्यालोकं जनस्य स्फुटयामि= विशदीकरोमि , यद्वा स्वस्य लोचनं ज्ञानं तस्य नियोजनया व्याख्यानरूपानुरणनद्वारा समर्पणेन स्फुटयामि-प्रकाशयामि , यथा नेत्रयोजनेन तथेत्युपमाध्वनिरत्रापि बोध्यः ।

 वृत्तिकारकृतस्य स्वेच्छेत्यादिपद्यस्य तात्पर्यार्थमवतारिकया दर्शयति-स्वयमित्यादि ।

स्वयमिति वृत्तिकारस्य निर्देशः , अव्युच्छिन्नः मध्ये विच्छेदेन रहितः परमेश्वरस्य-तत्तल्लीलाविग्रहमवलम्बमानस्य परमात्मनः; नमस्कारः तस्य सम्पत्तिः प्रकर्षः तया चरितः लब्धः अर्थः विघ्ननिवृत्त्यादिरूपसाक्षात्प्रयोजनं यस्य सः , तथाभूतस्य मङ्गलाचरणआपाततो विरोधमपिशब्दो द्योतयति , व्याख्यातृश्रोतृणामिति फलसम्पत्तय इत्यादिना सम्बन्धः , अविनेन=विन्नध्वंसेन, अभीष्टेति । व्याख्यातॄणां व्याख्यानं श्रोतृणां श्र

दिव्याञ्जनाख्या टिप्पनी
श्रीश्रीगौर कृष्णः शरणम् ।

गौरकृष्णगुरून्नत्वा ध्वन्यालोकस्य लोचनम् ।
अनज्मि दिव्याञ्जनतो दुर्दर्शार्थमवेक्षितुम् ॥

 अथ ध्वनिप्रस्थापकाचार्यश्रीमदानन्दवर्धनविरचितं ध्वन्यालोकनिबन्धनं. व्याख्यातवतो भरतदर्शनसूत्रभाष्यकारप्रधानस्याचार्यश्रीमदभिनवगुप्तस्य लोचनाख्ये व्याख्याने विषमस्थलानि मुख्यत्वेन विशदयितुकामस्य दिव्याञ्जननामिकेयं टिप्पनी ; प्रासङ्गिकी त्वपरत्रापीति न प्रतिश्रुतिविरोध उद्भावनीयः ।

यत्त्वत्रोत्तरपदाव्यवहितपूर्वत्वविशिष्टविद्यायोन्यन्यतरसम्बन्धवाचकर्दन्तपदोद्देश्यकानङ्विधायकानङ्तो द्वन्द्व इति शास्त्रेण विद्याद्वारकैकयज्ञार्विज्यसम्बन्धेन विद्यासम्बन्धिवाचकहोतापोतृवदिहापि विद्याद्वारकैकप्रतिपाद्यविषयकज्ञानानुकूलव्यापारवत्त्वसम्बन्धेन सम्बन्धिवाचकयोर्ख्यातृपदश्रोतृपदयोर्द्वन्द्वेऽपि व्याख्याताश्रोतृणामित्युचितमिति कश्चिदाक्षिपति तन्मन्दम्-

 "ऋतो विद्यायोनिसम्बन्धेभ्यः पूर्णतत्सूत्रानुवृत्तित ऋत्पदानुवृत्त्यैव निर्वाहे प्रकृतसूत्रे पुना ऋद्ग्रहणमानविध्यु द्देश्यताऽवच्छेदककोटिप्रविष्टसमस्यमानयावत्पदानामृदन्तत्वस्यापेक्षां दर्शयद् विद्यायोन्यन्यतरवाचिंत्वमपि तदवच्छेदककुक्षौ समाविवेशयि- षतीति व्याख्यातृशब्दस्य कथं चित्तदन्यतरवाचित्वेऽपि श्रीतृशब्दे तद्वाचित्वनियमादर्शनाद विशेषणाभावप्रयुक्तविशिष्टाभावमुद्रयोद्देश्यताऽवच्छेदकत्वानाक्रान्तत्वादानडोऽप्रवृत्तेः साध्वेव व्याख्यातृश्रोतृणामिति ।