पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
सटीकलोचनोपेतध्वन्यालोके

लोचनम्

भट्टेन्दुराजचरणाब्जकृताधिवास--
हृद्यश्रुतोऽभिनवगुप्तपदाभिधोऽहम् ।
यत्किंचिदप्यनुरणन्स्फुटयामि काव्या-
लोकं स्वलोचननियोजनया जनस्य ।।

बालप्रिया

ना-तत्तत्कार्य प्रति प्रसिद्धं यद्यदुपादानादिकारणन्तस्य कला लेशः तां विना=अन्तरेणैव अपूर्वं=लोकप्रसिद्धवस्तुविजातीयमद्भुतञ्च वस्तु=निरुपाख्यशशशृङ्गादिविलक्षणमनम्भोऽधिकरणककमलादिकं पदार्थम् प्रथयति=सृष्ट्वा विस्तारयति, किञ्च यद् ग्रावप्रख्यं =पाषाणतुल्यं निसर्गतो नीरसं जगत्=सर्वं वस्तु निजः स्वीयः काव्यसम्बन्धी यो रसः शृङ्गारादिः तस्य भरादतिशयात् सारयति=सारं करोति विभावादित्वयोजनेन रसव्यञ्जकं करोतीति यावद् , वाक्याभ्यामाभ्यां काव्यात्मकसरस्वतीतत्त्वस्य विश्वकर्तुः प्रजापतेरुत्कर्षरूपव्यतिरेको व्यञ्जितः ; तमेव स्थिरीकर्तुमाह-क्रमादित्यादि । यज्जगदिति चानुषज्यते, प्रख्या कवेः प्रतिभा; उपाख्या वचनं प्रथमं प्रख्या पश्चादुपाख्येति तयोर्यः क्रमात्प्रसरः तेन सुभगं हृद्यं सद् , भासयति=निसर्गेणारमणीयमपि सर्वं वस्तु रसव्यञ्जकत्वसम्पादनेन रमणीयं सत्प्रकाशयतीत्यर्थः, चकारस्यात्र सम्बन्धः , अत्र प्रख्योपाख्याप्रसरस्यापूर्ववस्तुनिर्माणे सरसत्वकरणे च हेतुत्वमार्थिकं बोध्यम् , अत्राद्येन वाक्येनापूर्ववस्तुनो निर्माणद्वितीयेन पूर्वं सतो वस्तुनस्सरसत्वकरणं तृतीयेन द्वयोरपि हृद्यतया प्रकाशनञ्चोक्तमित्यपि व्याचक्षते , तत्=तथाविधमपूर्ववस्तुप्रथयितृत्वादिधर्मविशिष्टम् , तद्धर्मसम्पत्त्यर्थमाह-कवीति । कविसहृदयावित्याख्या यस्य तत् , कविसहृदयशब्दावत्र निर्माणरूपकविव्यापारविचारात्मकसहृदयव्यापारविषयकाव्यपरौ , यद्वा कविसहृदयैराख्यायत उच्यते इति तदाख्यम् , अथ वा कविसहृदययोराख्या=आभीक्ष्ण्येन ख्यानं स्फुरणं यस्य तत् काव्यात्मकमित्यर्थः, तत्त्वमारोपितं बोध्यम् , सरस्वत्याः=शब्दप्रपञ्चाभिमानिन्यादेवतायाः, तत्त्वं=पारमार्थिकं रूपम् , विजयते=सर्वस्मादुपरि वर्तते , अनेन तन्नमस्कारो ग्रन्थकर्तुर्गम्यते; अथ च सरस्वत्यास्तत्त्वं ध्वनिकाव्यम् , विजयते; अपूर्वमित्याद्यर्थः पूर्ववद्वोध्य इति प्रतिपाद्यार्थोऽप्यासूत्रित इति दिक् ।

 अथौद्धत्यं परिहरन्नात्मनो व्याख्याननैपुणीं दर्शयन् कीर्त्यनुवृत्तये नामनिर्देशङ्कुर्वंश्व प्रतिजानीते-भट्टेत्यादि । भट्टेन्दुराजस्य=तन्नामकस्य गुरोः चरणाब्जयोः पद्मतुल्ययोः पादयोः तत्सन्निधाविति यावद् योऽधिवासस्तेन चरणाब्जशुश्रूषयेति यावद् ; हृद्यानि=स्वहृदयस्थानि; अथ च श्रोतृजनहृद प्रियाणि श्रुतानि शास्त्राणि यस्य सः., यथा पद्मेन सुरभीकरणे वस्तुनो हृद्यत्वं तथेत्युपमाऽत्र ध्वन्यते, यत्किञ्चित्=स्वल्पम् , अपिरेवार्थे , यद्वाऽनुरणन्नपीति योजना , अपिशब्दः स्वल्पाभिधानेन सह... स्फुटीकरणस्यापाततो विरोधं द्योतयति,