पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

श्रीमदानन्दवर्धनाचार्यप्रणीतो-
ध्वन्यालोकः ।
श्रीसहृदयतिलकरामषारककृतया बालप्रियाख्यटीकयोद्भासितया गोस्वामिश्रीदामोदरशास्त्रिनिर्मितया विषमस्थलदर्शिन्या दिव्याञ्जनाख्यटिप्पन्याऽक्तया च

श्रीमदाचार्ययाभिनवगुप्तविरचितया लोचनाख्यया व्याख्ययाऽनुगतः ।

प्रथम उद्द्योतः।


श्रीमदाचार्याभिनवगुप्तकृतं लोचनम्
श्रीभारत्यै नमः
अपूर्वं यद्वस्तु प्रथयति विना कारणकलां-
जगद्भावप्रख्यं निजरसभरात्सारयति च ।
क्रमात्प्रख्योपाख्याप्रसरसुभगं भासयति त-
त्सरस्वत्यास्तत्त्वं कविसहृदयाख्यं विजयते ॥
श्रीसहृदयतिलकरामषारककृतबालप्रिया
श्रीगुरवे नमः
श्रीगुरून्पूर्णवेदेशं सङ्गमेशञ्च माधवम् ।
शिवं शिवाञ्च नम्राणां कामधेनुम्मुहुर्नुमः ॥
काव्यालोको लोचनञ्च द्वे ग्राह्यग्राहके सताम् ।
तद्ग्रन्थकारावाचार्यौ रसिकाग्रेसरौ स्तुमः ॥
लोचनस्यादिमोद्द्योतमात्रस्यात्र पुरा कृता ।
विवृतिर्लभ्यते तत्तां दृष्ट्वा ग्रन्थान्तराणि च ॥
पाठान्केरलविख्यातानालम्ब्य च यथामति ।
कुर्मो बालप्रियां प्रायः प्रौढलोचनटिप्पनीम् ॥

 अथ तत्रभवन्तः श्रीमदाचार्याभिनवगुप्तपादाः काव्यालोकव्याख्यानञ्चिकीर्षवस्तस्य निर्विघ्नपरिसमाप्तये विहितं समुचितेष्टदेवतानमस्कारात्मकम्मङ्गलं शिष्यशिक्षायै ग्रन्थतोनिबध्नन्त्यपूर्वमित्यादि।

 यत्-कमलमनम्भसि कमलेत्यादिकाव्यात्मकं सरस्वतीतत्त्वम् , कारणकलां वि-