पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९
प्रथमोद्योतः


याः कैश्चिदुपनागरिकाद्याः प्रकाशिताः, ता अपि गताः श्रवणगो-


लोचनम्

जातौ जातिमतो वर्तमानत्वं न स्यात् , तदनुग्रह एव हि तत्र वर्तमानत्वम् । यथाह कश्चित्-

 लोकोत्तरे हि गाम्भीर्ये वर्तन्ते पृथिवीभुजः । इति ।

 तस्माद्वृत्तयोऽनुप्रासादिभ्योऽनतिरिक्तवृत्तयो नाभ्यधिकव्यापाराः । अत एव व्यापारभेदाभावान्न पृथगनुमेयस्वरूपा अपीति वृत्तिशब्दस्य व्यापारवाचिनोऽभिप्रायः । अनतिरिक्तत्वादेव वृत्तिव्यवहारो भामहादिभिर्न कृतः । उद्भटादिभिः प्रयुक्तऽपि तस्मि- न्नार्थः कश्चिदद्धिको हृदयपथमवतीर्ण इत्यभिप्रायेणाह-गताः श्रवणगोचरमिति ।

बालप्रिया

शषादितत्तद्वर्णरचनारूपाः परुषाद्या वृत्तयो वस्तुतोऽनुप्रासेषु वर्तन्ते । यथा-पृथिवी- भुजि गाम्भीर्यं, ताः परुषत्वादिविशिष्टानुप्रासादिभिरभिव्यज्यन्ते च । यथा-गोत्वा- दिजातयो गवादिभिः । अतश्च स्वाश्रयाभिव्यङ्गयत्वसाम्यावृत्तीनां जातित्वोपचार इति भावः । ननु वृत्तिरूपजातौ तज्जातिमतोऽनुप्रासस्य वर्तनमुक्तमयुक्तं, वैशेषिकमतविरुद्ध- त्वादित्यत आह-न चेत्यादि । इह अस्मन्मते । वैशेषिकवत् वैशेषिकमत इव । वृत्ति विवक्षितेति । वर्तनमाधेयत्वरूपन्न विवक्षितमित्यर्थः । तर्हि तत्र वर्तनं कि- न्नामेत्यत आह-तदनुग्रह एवेति । वृत्तिरूपजातिकर्तृकानुग्रह एवेत्यर्थः । स च तत्कर्तृकं भेदकधर्मसमर्पणं रसाभिव्यञ्जनसामाधानं वा ।

 उक्तार्थे दृष्टान्तमाह-लोकोत्तर इति । गम्भीर्ये वर्तन्त इति । गाम्भीर्यानुगृ- हीता भवन्तीत्यर्थः । गाम्भीर्यकर्तृकानुग्रहश्च सकलकार्यनिर्वहणसामर्थ्याधानादिरूपः । वृत्तौ 'तदनतिरिक्तवृत्तय' इत्यत्र तत्पदार्थन्दर्शयन्नुपसंहरति-तस्मादनुप्रासादिभ्य इत्यादि । नास्त्यतिरिक्ता वृत्तिर्व्यापारो यासां ता इत्यर्थकतया व्याचष्टे-नाभ्यधिके- ति। अनुप्रासानां यो व्यापारो रसव्यञ्जनविषयः, स एव वृत्तीनामपीति भावः। तदन- तिरिक्ता इत्यनुक्त्वा एवमुक्तः फलन्दशयनि-अत एवेत्यादि। अतः उक्तात् व्या- पारभेदाभावादेवेति योजना । न पृथगनुमेयस्वरूपा इति। पृथगनुप्रासावगमं विना नानुमेयस्वरूपाः, किन्तु वृत्तिव्यञ्जकवर्णविशेषरूपानुप्रासलिङ्ग गम्या इति भावः । न पृथगभिधेयस्वरूपा इति च पाठः । अनुप्रासाभ्यधिकव्यापारसत्त्वे तु वृत्तीनां स्वरूपं पृथगभिधेयं स्यादिति तद्भावः । उक्तार्थे वृद्धसम्मतिमाह-अनतीति । अनुप्रासान- तिरिक्तव्यापारत्वोक्त्या तदनतिरिक्तत्वं सिद्धमित्याशयेन अनतिरिक्तत्वादेवेत्युक्तम् । ननूद्बटादिभिः कृत एवेत्यत्राह-उद्भटादिभिरिति । प्रयुक्ते कृते । तस्मिन् वृत्ति. व्यवहारे । नार्थ इति । अर्थः वृत्तिशब्दार्थः । अधिकः अनुप्रासरूपार्थादधिकः ।


१. 'गाम्भीर्य यत्प्रभावेण विकारो नोपलभ्यत' (दशरू., ४.६.) इति लक्षण- लक्षितं गाम्भीर्यम् ।