पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४२
सटीकलोचनोपेतध्वन्यालोके


न तु विवक्षितत्वेन । यस्य तु विवक्षितत्वेन व्यङ्गयस्य स्थितिः तब्द्यञ्ज. कत्वं ध्वनिव्यवहारस्य प्रयोजकम् ।


लोचनम्

गामानयेति श्रुतेऽप्यभिप्राये व्यक्ते तदभिप्रायविशिष्टोऽर्थ एवाभिप्रेतानयनादिक्रियायोग्यो न त्वभिप्रायमात्रेण किंचित्कृत्यमिति भावः । विवक्षितत्वेनेति । प्राधान्येनेत्यर्थः । यस्य त्विति । ध्वन्युदाहरणेष्विति भावः । काव्यवाक्येभ्यो हि न नयनानयनाद्युपयो- गिनी प्रतीतिरभ्ययंते, अपि तु प्रतीतिविश्रान्तिकारिणी, सा चाभिप्रायनिष्ठैव नाभिप्रे. तवस्तुपर्यवसाना।

 नन्वेवमभिप्रायस्यैव व्यङ्गयत्वात्त्रिविधं व्यङ्गयमिति यदुक्तं तत्कथमित्याह-

बालप्रिया

त्यात्यादि । 'नान्तरीयकतयेति । अविनाभूतत्वेनेत्यर्थः । भावं विवृणोति लोचने- गामित्यादि । अभिप्राय व्यक्तेऽपीति सम्बन्धः । क्षीरग्रहणाद्यर्थकगवानयनाभिप्राये व्यक्तेऽपीत्यर्थः । अर्थः गोकर्मकात्वाद्यर्थः । न त्वित्यादि । गोकर्मकानयनादिक्रिया- रूपार्थ विना अभिप्रायासिद्धिरतश्च न वाचकत्वात्पृथाव्यञ्जकत्वं वाच्याव्द्यनयमिवेति च भावः। अभिप्रायरूपव्यङ्गयस्य विवक्षितत्वप्राप्त्यभावान्निषेधानुपपत्तिमाशङ्कय व्याचष्टे- प्राधान्येनेति । वृत्तौ यस्य व्यङ्गयस्येति सम्बन्धः। विवक्षितत्वेन स्थितिरित्यत्रा- काङ्क्षां पूरयति-ध्वन्युदाहरणेष्विति । वृत्तौ तव्द्यञ्जकत्वमित्यस्य तत्कर्मक- व्यञ्जकत्वमित्यर्थः । ननु ध्वन्युदाहरणेष्वपि लौकिकवाक्येष्विव विवक्षितत्वापरप- र्यायं प्राधान्यं वाच्यस्य विद्यत इत्याशङ्कायामभिप्रायमाह-काव्यवाक्येभ्य इत्यादि । नयनेति । प्रापणादिक्रियोपयोगिनीत्यर्थः । प्रतीतिः वाच्यार्थप्रतीतिः । नाभ्यर्थ्यत इति । किन्तु बलादापततीति भावः । अपि त्विति । का पुनरभ्यर्थ्यंत इति भावः। प्रतीतिविश्रान्तिकारिणी वाच्यप्रतीतिविश्रान्तिकारिणी । प्रतीतिरभ्य- र्थ्यंत इत्यनुषङ्गः । रसादिप्रतीतिरभ्यर्थ्यत इत्यथः । विभावादिप्रतीतिरूपत्वात्तस्या इति भावः । ननु सापि वाच्यपर्यवसायिन्यस्तु, तन्मूलकत्वादिति कथं व्यङ्गयस्य प्राधान्यमित्यत आह-सा चेत्यादि । चस्त्वर्थे । अभिप्रायनिष्ठैव रसादिव्यङ्गय- पर्यवसायिन्येव । अभिप्रेतवस्त्विति । वाच्यार्थेत्यर्थः । अतश्च वाच्यस्य न विवक्षि. तत्वलक्षणं प्राधान्यं काव्यवाक्येष्विति भावः ।

 यत्त्वित्यादिग्रन्थमानर्थक्यशङ्कापरिहारायावतारयति-नन्वित्यादि । वृत्तावभिप्रा. यविशेषरूपं यव्द्यङ्गजयन्तु तात्पर्येण प्रकाश्यमानं सच्छशब्दार्थाभ्यां प्रकाश्यते तद्विवक्षि. तं भवतीति सम्बन्धः । 'विवक्षितं' प्रधानम् । तदेव अभिप्रायविशेषरूप मेव। अप- रिमितविषयस्यैति हेतुगर्भम् । किन्तु तथा दर्शितेति सम्बन्धः । 'तथा' उक्तप्रकारेण । 'अनभिप्रायरूपञ्चेति । विवक्षितमित्यनुषङ्गः। 'नातिव्याप्तिरित्यादि । गुणीभूतव्य- 0