पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४१
तृतीयोद्द्योतः


न त्वभिधेयः, तेन सहाभिधानस्य वाच्यवाचकभावलक्षणसम्बन्धाभावात् । नन्वनेन न्यायेन सर्वेषामेव लौकिकानां वाक्यान ध्वनिव्यवहारः प्रसक्तः। सर्वेषामप्यनेन न्यायेन व्यञ्जकत्वात् । सत्यमेतत् ; किं तु वक्रभिप्राय- प्रकाशनेन यद्व्यञ्जकत्वं तत्सर्वेषामेव लौकिकाना वाक्यानामविशिष्टम् । तत्तु वाचकत्वान्न भिद्यते व्यङ्गयं हि तत्र नान्तरीयकतया व्यवस्थितम् ।


लोचनम्

शाब्दोऽन्वय इत्यनेन पुरुषाभिप्रायानुप्रवेशादेवाङ्गुल्यग्रवाक्यादौ मिथ्यार्थत्वमुक्तम् । तेन सहेति । अनियततया नैसर्गिकत्वाभावादिति भावः । नान्तरीयकतयेति ।

बालप्रिया

नन्वस्तु पुरुषाभिप्रायो व्यङ्गयः व्यापारान्तरञ्च व्यञ्जकत्वं वाक्यस्य, तथापि कथं मिथ्यार्थकत्वमित्यत आह-तथेत्यादि । तथा अभिप्रायव्यञ्जकत्वेन प्रकारेण मात्र पौरुषेयवाक्ये विषये। प्रमाणान्तरदर्शनं प्रमाणान्तरेण प्रत्यक्षादिना दर्शनं तद्वाक्यार्थज्ञानम् । बाध्यते क्वचिद्वाधितं क्रियते । बाधा नाम अनुत्पत्तिः । पौरुषेय- वाक्यस्य पुरुषेच्छानुविधायित्वेन यथा दृष्टार्थकत्वनियमाभावात्कदाचित्तदर्थविषयकं प्रत्यक्षादिज्ञानं नोत्पद्यत इत्यतो मिथ्यार्थकतेति भावः । न त्विति । बाध्यत इत्यनु- षज्यते । शाब्दोऽन्वयः शब्दस्यार्थेन स्वाभाविकस्सम्बन्धोऽर्थबोधनसामर्थ्यल. क्षणः । सामान्येनोक्तं विशेषे दर्शयन्नाह-इत्यनेनेत्यादि । अङ्गुल्यग्रवाक्यादौ अड्गुल्यने करिवरशतमिति वाक्यादौ । मिथ्यार्थत्वमुक्तमिति । असम्बद्धार्थस्यापि पुरुषाभिप्रेतत्वसम्भवादिति भावः । तथाचोक्तरूपस्य शब्दार्थसम्बन्धस्य नित्यत्वेऽपि पौरुषेयवाक्यानां पुरुषाभिप्रायानुविधायित्वात्तदभिप्रेतं यद्वाक्यार्थस्यासत्यत्वं, तद्वा- क्यस्य मिथ्यार्थकत्वेनाप्रामाण्यम् । अपौरुषेयाणां वाक्यानान्तु वक्तुरभावेन तेषां सर्वेषामेव प्रामाण्यञ्चेति बोध्यम् । वृत्तौ 'तेन सहेति । पुरुषाभिप्रायेण सहेत्यर्थः । 'अभिधानस्य' शब्दस्य । 'वाच्यवाचकसम्बन्धाभावादिति । अनेन शब्दस्य

व्यङ्गयेन सह यस्सम्बन्धस्तस्य वाच्यवाचकभावत्वं नास्तीति दर्शितं, तत्र हेतुमाह लोचने-अनियतत्वादित्यादि । अनियतत्वेन हेतुना स्वाभाविकत्वाभावादि- त्यर्थः । अथाभिप्रायस्य व्यङ्गयत्वोक्तिमाश्रित्य शङ्कते-'नन्वनेनेत्यादि । 'प्रसक्तः' प्राप्तः, यद्वा-आपत्तिविषयः । अत्र हेतुमाह-'सर्वेषामित्यादि । इष्टापत्तिं दर्शयति- 'सत्यमित्यादि । 'सत्यमेतदिति । अभिप्रायप्रकाशनेन यद्वयञ्जकत्वं तत्सर्वेषामस्ती- त्यर्थः । विशेषमाह-'किन्त्त्वात्यादि । यद्वयज्जकत्वं तत्तु वाचकत्वान्न भिद्यत इति सम्बन्धः । वक्त्रभिप्रायप्रकाशनेनेत्यस्य स्थाने वक्त्रभिप्रायविशिष्टार्थप्रकाशनेनेति च पाठः । 'अविशिष्टं साधारणम् । वाचकत्वान्न भिद्यत इत्यत्र हेतुमाह-'व्यङ्गयं ही'.

 ५६ धव०