पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४०
सटीकलोचनोपेतध्वन्यालोके


दृश्यते हि भावानामपरित्यक्तस्वस्वभावानामपि सामग्ण्यन्तरसम्पात. सम्पादितौपाधिकव्यापारान्तराणां विरुद्धक्रियत्वम् । तथा हि-हिनमयूखप्र. भृतीना निर्वापितसकलजीवलोकं शीतलस्वमुद्बहतामेव प्रियाविरहदहनद. ह्यमानमानसैर्जनैरालोक्यमानानां सतां सन्तापकारित्वं प्रसिद्धमेव । तस्मा- त्पौरुषेयाणां वाक्यानां सत्यपि नैसर्गिकेऽर्थसम्बन्धे मिथ्यार्थत्वं समर्थयि. तुमिच्छता वाचकत्वव्यतिरिक्तं किंचिद्रूपमौपाधिकं व्यक्तमेवाभिधानीयम् । तच्च व्यञ्जकत्वादृते नान्यत् । व्यङ्गयप्रकाशनं हि व्यञ्जकत्वम् । पौरुषेयाणि च वाक्यानि प्राधान्येन पुरुषाभिप्रायमेव प्रकाशयन्ति । स च व्यङ्गय एव


लोचनम्

ननु धर्मान्तराभ्युपगमेऽपि कथं मिथ्यार्थता, न हि प्रकाशकत्वलक्षणं स्वधर्म जहा. ति शब्द इत्याशङ्कयाह-दृश्यत इति । प्राधान्येनेति । यदाह-"एवमयं पुरुषा वेदेति भवति प्रत्ययः न त्वेवमयमर्थ” इति । तथा प्रामाणान्तरदर्शनमत्र बाध्यते, न तु

बालप्रिया

उक्तार्थस्यानुभवसिद्धत्वमुक्तं दृश्यत इत्यादिना तद्वचनं किमर्थमित्यतस्तद्ग्रन्थमव-

तारयति-नन्वित्यादि । कथमिति न सिद्ध्येदित्यर्थः । अत्र हेतुमाह-न हीत्यादि प्रकाशकत्वलक्षणमिति। अर्थवोधनसामर्थ्यरूपमित्यर्थः। न हि जहातीति सम्बन्धः। क्लप्तकल्प्यमानयोः क्लुप्तं बलवदिति न्यायोऽनेन दर्शितः। वृत्तौ भावानामिति। पदा. र्थानामित्यर्थः। सामग्यन्तरसम्पातेन सम्पादितमत एवौपाधिकं धर्मान्तरं येषु तेषाम् । 'विरुद्ध क्रियत्वं' स्वस्वभावविरुद्ध क्रियोत्पादकत्वम् । 'हिममयूखः' चन्द्रः । 'निर्वा. पितः सन्तापशान्तिं प्रापितो जीवलोको येन तत् । तथाविधं शीतलत्वमुद्हतामि- त्यनेनापरित्यक्तस्वस्वभावत्वं प्रियाविरहेत्यादिना सामग्र्यन्तरेत्यायुक्तं सन्तापकारित्व- मित्यनेन विरुद्धक्रियत्वञ्च दर्शितम् । यथा शाकुन्तले "विसृजति हिमगर्भैरग्निमिन्दु- र्मयूखैः" इति । उपसंहरति-'तस्मादित्यादि । पौरुषेयाणि वाक्यानि प्राधान्येन पुरुषाभिप्रायमेव प्रकाशयन्तीत्यत्र जैमिनिसूत्रभाष्यकृद्वचनं प्रमाणयति-यदाहेति । अयं पुरुष इति । वक्तृपुरुष इत्यर्थः । एवं वेदेसि । यथानेनोक्तं तथा जानाती- त्यर्थः । इति प्रत्ययो भवतीति योजना। प्रतिपत्तुरिति शेषः । न त्वेवमर्थ इति । अयमर्थ एवमेवेति प्रत्ययस्तु प्रतिपत्तुर्न भवतीत्यर्थः । अर्थस्य बाधसम्भवादिति भावः । अतस्तत्तद्वाक्यार्थज्ञानरूपं पुरुषाभिप्रायमेव प्राधान्येन प्रकाशयन्तीति भावः ।


 १, शावरभाष्य., पृ. ४. पं. ५ चौ. सं.