पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३
सटीकलोचनोपेतध्वन्यालोके


व्यञ्जकत्वम् । शब्दात्मन्यनियतत्वादेव च तस्य वाचकत्वप्रकारता न शक्या कल्पयितुम् । यदि हि वाचकत्वप्रकारता तस्य भवेत्तच्छब्दा- त्मनि नियततापि स्याद्वाचकत्ववत् । स च तथाविध औपाधिको धर्मः शब्दानामौत्यत्तिकशब्दार्थसम्बन्धवादिना वाक्यतत्त्वविदा पौरुषापौरुषेय- योर्वाक्ययोर्विशेषमभिदधता नियमेनाभ्युपगन्तव्यः, तदनभ्युपगमे हि तस्य शब्दार्थसम्बन्धनित्यत्वे सत्यप्यपौरुषेयपौरुषेययोर्वाक्ययोरर्थप्रतिपा.


लोचनम्

षयेति । स्वस्मिन्विषये च गृहीते रूप्यादौ न व्यभिचरति । न कस्यचिद्विमतिमेती. ति यदुक्तं तत्स्फुटयति-स चेति । व्यञ्जकत्वलक्षण इत्यर्थः । औत्पत्तिकेति । जन्मना द्वितीयो भावविकारः सत्तारूपः सामीप्यालक्ष्यते विपरीतलक्षणातो वानुत्पत्तिः,

बालप्रिया

तस्याः जिज्ञासा । व्याप्तिसुस्मूर्षा हेतो साध्यस्य या व्याप्तिः, तत्स्मरणेच्छा । प्रभृतिपदेन व्याप्यस्य सपक्षसत्वादिजिज्ञासा गृह्यते । पक्षधर्मताजिज्ञासादीनामनुमितिं प्रति प्रयोजकत्वं प्राचीनाभ्युपगतं तद्वारा च लिङ्गत्वस्य तदधीनत्वं बोध्यम् । स्वाविष- याव्याभिचारीत्यस्य तात्पार्थविवरणम्-स्वस्मिन्नित्यादि । स्वस्मिन् स्वसम्ब- न्धिनि लिङ्गे । विषये च साध्ये च। विषये वेति च पाठः । गृहीत इत्यनेनानयोस्स. म्बन्धः। त्रैरूप्यादाविति । त्रैरूप्यमनुमानानभूतं पक्षसत्वसपक्षसत्वविपक्षासत्वरूप- मादिपदेनाबाधितत्वादिकं गृह्यते। तत्र त्रैरूप्यस्य लिङ्गे अबाधितत्वादेस्साध्ये च प्रहः । न व्यभिचरतीति ज्ञापकत्वं स्वविषये न व्यभिचरतीत्यर्थः । स्वविषयाव्यभिचारीति वृत्तेस्तु ज्ञापकत्वस्य विषये ज्ञाप्ये वह्वयादौ न व्यभिचरतीत्येवार्थः । वृत्तौ 'वाचकत्वप्र- कारतेति । वाचकत्वावान्तरधर्मतेत्यर्थः । 'तदिति । तर्हीत्यर्थः । नन्वेवं व्यञ्जकत्वं न कस्य चिद्विमतिविषयतामर्हतीत्युक्तमयुक्तं व्यङ्गयव्यञ्जकभावलक्षणस्य शब्दार्थस. म्बन्धस्यानियतत्वेनौत्पत्तिकसूत्रविरोधादित्याशङ्कां स चेत्यादिग्रन्थेन परिहरतीत्यव- तारयति-न कस्यचिदित्यादि । स्फुटयति स्फुटं करोति साधयतीति यावत् । वृत्तौ शब्दानां धर्म इति योजना । 'औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्ध' इत्यादिचै. मिनीयं सूत्रं मनसि कृत्योक्तम् 'औत्पत्तिके'त्यादि । तत्रौत्पत्तिकपदेन नित्य इत्यर्थो विवक्षितस्तल्लाभप्रकारं दर्शयति-जन्मनेत्यादि । लक्ष्यत इति । जायते अस्ति वर्धते विपरिणमते अपक्षीयते नश्यतीति षड्विकारा भावानामुक्ताः। तत्र द्वितीयस्स. तारूपो विकारः उत्पत्तिपदार्थेन जन्मना सामीप्यानिमित्ताल्लक्ष्यत इत्यर्थः । सत्तामा- त्रस्य लक्षणात्सदासत्वं कल्प्यमित्यपरितोषादाह-विपरीतेत्यादि । जन्मना लक्ष्यत