पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३७
तृतीयोद्द्योतः


घिकत्वात् । प्रकरणाद्यवच्छेदेन तस्य प्रतीतरितरथा त्वप्रतीतेः । ननु यद्यनियतस्तत्किं तस्य स्वरूपपरीक्षया ।नैष दोषः, यतः शब्दात्मनि तस्यानियतत्वम् , न तु स्वे विषये व्यङ्गयलक्षणे । लिङ्ग- त्वन्यायश्चास्य व्यञ्जकभावस्य लक्ष्यते, यथा लिङ्गत्वमाश्रयेष्वनियता- वभासन् , इच्छाधीनत्वात् ; स्वविषयाव्यभिचारि च । तथैवेदं यथा दर्शितं


लोचनम्

देव स्फुटयति-अत एवेति । औपाधिकत्वं दर्शयति-प्रकरणादीति । किं तस्येति । अनियतत्वाद्यथारुचि कल्प्येत पारमार्थिक रूपं नास्तीति ; न चावस्तुनः परीक्षोपपद्यत इति भावः । शब्दात्मनीति । सङ्केतास्पदे पदस्वरूपमात्र इत्यर्थः । आश्रयेष्विति । न हि धूमे वह्निगमकत्वं सदातनम् , अन्यगमकत्वस्य वह्वयगमकत्वस्य च दर्शनात् । इच्छाधीनत्वादिति । इच्छात्र पक्षधर्मत्वजिज्ञासाव्याप्तिसुस्मूर्षाप्रभृतिः । स्ववि.

बालप्रिया

'तस्य' व्यञ्जकत्वस्य । 'प्रतीतेः उन्मेषात् । प्रकरणादीत्यादिग्रन्थो न हेत्वन्तरप्रदर्शकः, किन्त्वौपाधिकत्वादित्युक्तस्यैव विवरणरूप इत्याह लोचने-औपाधिकत्वं दर्शय- तीति । वृत्तौ यद्यनियत' इति । स इत्यनुषज्यते । तस्य व्यञ्जकत्वस्य । लोचने भा- वमाह-अनियतत्वादित्यादि । अनियतत्वात् अभिधावन्नियतत्वाभावात् । कल्प्येतेति । तत्स्वरूपमिति शेषः । अत्र हेतुमाह-पारमार्थिकमित्यादि । पार- मार्थिकं अनुगतम् । इतीति हेतौ । किं तत इत्यत आह-न चेत्यादि । गगनार- विन्दादेरपि परीक्ष्यत्वप्रसङ्गादिति भावः । शब्दात्मनीत्यनेन विवक्षितं व्याचष्टे-सङ्के- तास्पद इत्यादि । मात्रपदेनार्थस्य व्यवच्छेदः । वृत्तौ तस्येति । व्यञजकत्वस्येत्यर्थः । 'न त्वित्यादि । तस्यानियतत्वमित्यनुषज्यते । स्वे स्वसम्बन्धिनि । 'व्यङ्ग्यलक्षणे विषये' व्यङ्गयार्थे । यस्य यस्य व्यङ्गोऽर्थो विद्यते तस्य तस्य व्यञ्जकत्वमित्येव- मर्थविषये नियतत्वं व्यञ्जकत्वस्यास्त्येवेत्यर्थः । अत्र दृष्टान्तकथनम्-लिङ्गत्वेत्यादि । 'लिङ्गत्वन्यायः लिङ्गत्वसाम्यम् । ' लिङ्गत्वं वह्नयादिज्ञापकत्वम् । 'आश्रयेषु' धूमा- दिषु । अनियतावभासमित्येतद्विवृणोति लोचने-न हीत्यादि । न हि सदातनमित्यत्र हेतुमाह-अन्येत्यादि। अन्येति । वह्वद्यतिरिक्तेत्यर्थः । वह्नथगमकत्वस्येति । कदाचिद्वह्लिगमकत्वाभावस्येत्यर्थः । दर्शनात् अनुभवात् । इच्छाधीनत्वादित्यत्रेच्छा- पदं प्रकृतानुगुणतया व्याख्याति-इच्छेत्यादि । पक्षधर्मता व्याप्यस्य पक्षवृत्तिता


 १. लिङ्गत्वेति । लोनं प्रत्यक्षाद्यविषयं व्याप्तिज्ञानपरामर्शाभ्यां गमयति वेदयती-

ति लिङ्ग पृषोदरादित्वान्निष्पन्नसाधुत्वकम् ।

 २. प्रभृतिरिति । इच्छात्र सिषाधविषाविरहविशिष्टसिध्यभावरूपपक्षताकु क्षिनि.

हितानुमित्सात्मिकोपादेयेति तत्त्वम् ।