पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३६
सटीकलोचनोपेतध्वन्यालोके


हेतुस्वाद्वियषान्तरे तद्रूपशून्याया दर्शनात् । एतच्च सर्वं प्राक्सूचि. तमपि स्फुटतरप्रतीतये पुनरुक्तम् ।

 अपि च व्यञ्जकत्वलक्षणो यः शब्दार्थयोर्धर्मः स प्रसिद्धसम्बन्धा- नुरोधीति न कस्यचिद्विमतिविषयतामर्हति । शब्दार्थयोर्हि प्रसिद्धो यः सम्बन्धो वाच्यवाचकभावाख्यस्तमनुरुन्धान एव व्यञ्जकत्वलक्षणों व्या- पारः सामग्रन्तरसम्बन्धादौपाधिकः प्रवर्तते । अत एव वाचकत्वात्तस्य विशेषः । वाचकत्वं हि शब्दविशेषस्य नियत आत्मा व्युत्पत्तिकालादा- रभ्य तदविनाभावेन तस्य प्रसिद्धत्वात् ।स त्वनियतः,औपा-सामा अन्तर


लोचनम्

प्रतीतिहेतुत्वमस्तीति दर्शयति-विषयान्तर इति । अग्निवटुरित्यादौ । प्रागिति प्रथमोद्द्योते।

 नियतस्वभावाच्च वाच्यवाचकत्वादौपाधिकत्वेनानियतं व्यञ्जकत्वं कथं न भिन्ननिमि- त्तमिति दर्शयति-अपि चेति । औपाधिक इति । व्यञ्जकत्ववैचित्र्यं यत्पूर्वमुक्तं तत्कृत इत्यर्थः । अत एव समयनियमितादभिधाव्यापाराद्विलक्षण इति यावत् । एत-

बालप्रिया

मेतमुक्तानुमानोपयोगितयाऽवतारयति-न हीत्यादि । विषयान्तर इत्यस्य विव. रणम्- -अग्निर्बटुरित्यादाविति ।

 अथापि चेत्यादिग्रन्थोऽभाववादिनः प्रति स्थूणानिखननन्यायेन व्यञ्जकत्वसाधक इत्यभिप्रायेणावतारयति-नियतेत्यादि । नियतस्वाभवादिति । वाचकत्वं हि समयापेक्षत्वेन नियतस्वरूपमिति भावः । अनियतत्वे हेतुः-औपाधिकत्वेनेति । कथमित्यादि । वाचकत्वाद्वयञ्जकत्वस्य प्रवृत्तेर्निमित्तं भिन्नमेवेत्यर्थः । वृत्तौ 'सामग्र्य- न्तरे'त्यादि। 'सामग्यन्तरसम्बन्धात्' प्रकरणादेर्मुख्यसामग्र्यास्सन्निधानात् । 'औपा- धिकः प्रवर्तते' औपाधिकस्सन्नुल्लसतीत्यर्थः । अत्रोपाधिशब्देनान्यावान्तरसामग्री विवक्षितेत्याशयेन विवृणोति-व्यञ्जकत्वेत्यादि । व्यञ्जकत्वे यद्वैचित्र्यं वाच्यवाकयो- र्गुणत्वप्राधान्यादि । ननु सामग्रद्यन्तरसम्बन्धजनितत्वेऽप्ययं व्यापारो वाचकव्यापा- रत्वादभिधैवास्त्वित्यत आह-मत एवेत्यादि । अत एव यतस्सामप्रयन्तरसम्ब- न्धादौपाधिको जनितस्तत एवेत्यर्थः । एतदेव उक्तमेव । वृत्तौ शब्दविशेषस्येति । साक्षात्समयापेक्षिणशब्दस्येत्यर्थः। 'आत्मा' स्वभावः । 'व्युत्पत्तिकालादिति । सङ्केत. कालादित्यर्थः । तथा पाठश्च । 'तदिति शब्देत्यर्थः। तस्य' वाचकत्वस्य । 'स त्विति । व्यञ्जकत्वव्यापारस्त्वित्यर्थः । 'प्रकरणाद्यवच्छेदेन' प्रकरणादिसहकारेण ।