पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५१८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३५
तृतीयोद्द्योतः


विधेऽपि विषये गुणवृत्तौ सत्यामपि ध्वनिव्यवहार एव युक्त्यनुरोधी । तस्मादविवक्षितवाच्ये ध्वनौ द्वयोरपि प्रभेदयोर्व्यञ्जकत्वविशेषाविशिष्टा गुणवृत्तिर्नं तु तदेकरूपा सहृदयहृदयाह्लादिनी प्रतीयमाना प्रतीति.


लोचनम्

यापि न भवति। सत्यामपीति । व्यञ्जनव्यापार सम्पत्तये क्षणमात्रमवलम्बितायामिति भावः । तस्मादिति । व्यञ्जकत्वलक्षणो यो विशेषस्तेनाविशिष्टा अविद्यमानं विशिष्टं विशेषो भेदनं यस्याः व्यञ्जकत्वं न तस्या भेद इत्यर्थः । यदि वा व्यजकत्वलक्षणेन व्यापारविशेषेणाविशिष्टा न्यक्कृतस्वभावा आसमन्ताद्वद्याप्ता । तदेकेति । तेन व्यञ्जक त्वलक्षणेन सहैकं रूपं यस्याः सा तथाविधा न भवति । अविवक्षितवाच्ये व्यञ्जकत्वं गुणवृत्तेः पृथक्चारुप्रतीतिहेतुत्वात् विवक्षितवाच्यनिष्टव्यञ्जकत्ववत् , न हि गुणवृत्तेश्चारु.

बालप्रिया

वदपि व्यङ्ग्यमात्रान्वितमारोपितमेव प्रतीतिविश्रान्तिस्थानमस्तु, किं चारुरूपव्यङ्गद्यस- माश्रयणेनेत्यत आह-आरोपित इत्यादि । असम्भवतीति हेतुगर्भम् । क्षणमात्रम- वलम्बितायामित्यनेन गुणवृत्तिविषयभूतार्थस्यावान्तरतात्पर्यगोचरत्वं दर्शितम् । वृत्तौ 'तथाविधे विषय' इति । असम्भवदर्थकवाक्य इत्यर्थः । उपसंहरति-'तस्मादित्यादि । व्यञ्जकत्वविशेषाविशिष्टेत्येतत्प्रकृतानुगुण्येन व्याचष्टे-व्यञ्जकत्वेत्यादि । तेनेति करणे तृतीया । विवरणेन सिद्धं फलितार्थमाह-व्यञ्जकत्वमित्यादि । तस्याः गुण- वृत्तेः । भेदः अवान्तरधर्मः । व्यञ्जकत्वगुणवृत्योः प्रतिपादितभेदोपसंहारपरतयैवं व्याख्याय व्यञ्जकत्वप्राधान्यस्यान्याप्राधान्यस्य च प्रतिपादितस्योपसंहारपरतयाऽप्येतं ग्रन्थं व्याचष्टे-यदि वेत्यादि। यदि वा अथ च । विशिष्टा विशेषिता न भवतीत्य- विशिष्टा । यद्वा विशिष्टं विशेषः आदरः अविद्यमानं विशिष्टं यस्यास्सेति व्युत्पत्तिमभि. प्रेत्याह-न्यक्कृतस्वभावेति । व्यञ्जकत्वविशेषेणाऽविशिष्टेति विग्रहं धातूनां बह्व. र्थश्चाभिप्रेत्य प्रकारान्तरमाह-मासमन्ताद्याप्तेति । यदिवेत्यनुषङ्गः । ननु तथापि गुणवृत्तेर्व्यञ्जकत्वैकरूपत्वमस्त्विति शङ्कायामुक्तं, न तु तदेकरूपेति तद्विवृणोति-तेने त्यादि । तदेकरूपत्वाभावे हेतुः-'सहृदयेत्यादि । नेत्यस्यानुषङ्गः। यतो गुणवृत्तिः सहृदयहृदयाह्लादिनी प्रतीयमाना च न भवत्यतो न तदेकरूपेति सम्बन्धः । व्यङ्ग्य. गतं सहृदयहृदयाह्लादकत्वं प्रतीयमानत्वञ्च व्यञ्जकत्वे समारोप्य गुणवृत्तेस्तनिषेधपूर्वकं तदेकरूपत्वं निषिद्धमिति बोध्यम् । एवं गुणवृत्तेर्व्यंञ्जकत्वैकरूपत्वाभावप्रतिपादनेन व्यञ्जकत्वस्य गुणवृत्तिभिन्नत्वं लभ्यते, तत्र हेतुप्रदर्शकः प्रतीतिहेतुत्वादिति ग्रन्थः, चारुत्वप्रतीतिहेतुत्वादिति तदर्थः, व्यञ्जकत्वस्येति शेषः । तथाचायं प्रयोग इत्याशये. नाह लोचने-अविवक्षितवाच्य इत्यादि । पृथगिति भिन्नमित्यर्थः । वृत्तौ 'तद्रू- पशून्याया' इति । चारूत्वप्रतीतिहेतुत्वशून्याया इत्यर्थः । गुणवृत्तेरित्यनुषङ्गः ।ग्रन्थ-