पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३४
सटीकलोचनोपेतध्वन्यालोके


 यत्र तु सा चारुरूपव्यङ्ग्यप्रतीतिहेतुस्तत्रापि व्यञ्जकत्वानुप्रवेशेनैव वाचकत्ववत् । असम्भविना चार्थेन यत्र व्यवहारः, यथा---'सुवर्णपुष्पां पृथिवीम्' इत्यादौ तत्र चारुरूपव्यङ्गयप्रतीतिरेव प्रयोजिकेति तथा-


लोचनम्

 ननु यत्र व्यङ्गयेऽर्थे विश्रान्तिस्तत्र किं कर्तव्य मित्याशङ्कयाह-यत्र त्विति । अस्ति तत्रापरो व्यञ्जनव्यापारः परिस्फुट एवेत्यर्थः । दृष्टान्तं पराङ्गीकृतमेवाह- वाचकत्वादिति । वाचकत्वे हि त्वयैवाङ्गीकृतो व्यञ्जनव्यापारः प्रथमं ध्वनिप्रभेद. मप्रत्याचक्षाणेनेति भावः। किञ्च वस्त्वन्तरे मुख्ये सम्भवति सम्भवदेव वस्त्वन्तरं मुख्यमेवारोप्यते विषयान्तरमात्रतस्त्वारोपव्यवहार इति जीवितमुपचारस्य, सुवर्णपुष्पा- णां तु मूलत एवासम्भवात्तदुच्चयनस्य तत्र क आरोपव्यवहारः; 'सुवर्णपुष्पां पृथिवीम्। इति हि स्यादारोपः, तस्मादत्र व्यञ्जनव्यापार एव प्रधानभूतो नारोपव्यवहारः, स परं व्यञ्जनव्यापारानुरोधितयोत्तिष्ठति। तदाह-असम्भविनेति । प्रयोजिकेति । व्याय- मेव हि प्रयोजनरूपं प्रतीतिविश्रामस्थानमारोपिते त्वसम्भवति प्रतीतिविश्रान्तिराशङ्कनी.

बालप्रिया

व्यापारस्य वाच्यार्थ एव विश्रान्तिर्यतस्तस्मादित्यार्थः।

 वृत्तौ 'यत्रेत्यादि । 'सेति । गुणवृत्तिरित्यर्थः । 'व्यञ्जकत्वानुप्रवेशेनैवेति । भव- तीति शेषः । ग्रन्थमेतमवतारयति-नन्वित्यादि । अपर इति । चारूरूपव्यङ्गय. प्रत्यायकत्वाद्विलक्षण इत्यर्थः । प्रथममिति । विवक्षितान्यपरवाच्यमित्यर्थः । अप्र- त्याचक्षाणेन अभ्युपगच्छता । असम्भविनेत्यादिग्रन्थं तात्पर्यतोऽवतारयति- किञ्चेत्यादि । असम्भविना चेति चकारः किञ्चेत्यनेन व्याख्यातः । वस्त्वन्तर इत्यादि । अधिष्ठानारोप्ययोरुभयोरपि सम्भवे सत्येवारोप इत्यर्थः । यथा माणवकादा- वग्न्यादेः । ननु तयोरुभयोस्सत्वे कुत आरोपव्यवहार इत्यत आह-विषयान्तर मात्रत इति । विषयान्तरत्वमात्रेणेत्यर्थः । वस्तुतस्तयोरैक्याभावादिति भावः । इ. तीत्यादि । स्वतस्सतोरारोप्याधिष्ठानयोरेकस्मिन्नन्यस्यारोप इतीदमुपचारस्य मुख्यं जीवितमित्यर्थः । अस्त्वेतत्ततः किमत आह-सुवर्णपुष्पाणामित्यादि । मूलत एव अत्यर्थमेव । तदुच्चयनस्य सुवर्णपुष्पोच्चयनस्य । तत्र सुवर्णपुष्पामित्यायुदाहरण- स्थले । क इति । निर्जीव इत्यर्थः । ननु तर्हि सुवर्णपुष्पां पृथिवीमिति प्रयोगः कथमु- पपद्यत इत्यत आह--सुवर्णत्यादि । इत्यारोपस्स्याद्धीति सम्बन्धः। तदारोपं विना तस्य महाकविप्रयोगस्यानिर्वाहादिति भावः। फलितमाह-तस्मादित्यादि । आरो पव्यवहार इति । आरोपमूलकगुणवृत्तिव्यवहार इत्यर्थः । तदाहेति । उक्ताभिप्राये- णाहेत्यर्थः । वृत्तौ 'प्रयोजिके'त्यस्य व्यवहारप्रयोजिकेत्यर्थः । चारूपेत्यादिग्रन्थस्य भावार्थमाह-व्यङ्गयमित्यादि। प्रयोजनरूपमिति हेतुगर्भ विशेषणम् । नन्वसम्भ-