पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२८
सटीकलोचनोपेतध्वन्यालोके


करूपमेवान्यत्र वाचकत्वाश्रयेण व्यवस्थानात् । न चोभयधर्मत्वेनैव तदे. कैकरूपं न भवति । याववाचकत्वलक्षणादिरूपरहितशब्दधर्मत्वेनापि । तथाहि गीतध्वनीनामपि व्यञ्जकत्वमस्ति रसादिविषयम् । न च तेषां वाचकत्वं लक्षणा वा कथञ्चिल्लक्ष्यते । शब्दादन्यत्रापि विषये व्यञ्जक- स्वस्य दर्शनाद्वाचकत्वादिशब्दधर्मप्रकारत्वमयुक्तं वक्तुम् । यदि च वाचकत्वलक्षणादीनां शब्दप्रकाराणां प्रसिद्धप्रकारविलक्षणत्वेऽपि व्यञ्ज. कत्वं प्रकारत्वेन परिकल्प्यते तच्छब्दस्यैव प्रकारत्वेन कस्मान्न परिक-


लोचनम्

वैलक्षण्यादिति सूचितो हेतुः । तमेव प्रकाशयति-तथाहीत्यादिना । तेषामिति । गीतादिशब्दानाम् । हेत्वन्तरमपि सूचयति-शब्दादन्यत्रेति । वाचकत्वगौणत्वा. भ्यामन्यद्व्यञ्जकत्वं शब्दादन्यत्रापि वर्तमानत्वात्प्रमेयत्वादिवदिति हेतुः सूचितः । नन्वन्यत्रावाचके यद्व्यञ्जकत्वं तद्भवतु वाचकत्वादेर्विलक्षणम् , वाचके तु यद्व्यञ्जकत्वं तदविलक्षणमेवास्त्वित्याशङ्कयाह-यदीति । आदिपदेन गौणं गृह्यते । शब्दस्यै-

बालप्रिया

शेषः। तमेव हेतुं स्फुटयति-वाचकत्वेत्यादि । वाचकस्वगौणत्वोभयस्य यो वृत्तान्तः तद्वैलक्षण्यात्तदुभयरहितवृत्तित्वादित्यर्थः । गौणत्वेति । लाक्षणिकत्वस्याप्युपलक्ष. णम् । शब्दादित्यादिदर्शनादित्यन्तग्रन्थो न पूर्वान्वयी, किन्तु उत्तरान्वयीत्याशयेना. वतारयति-हेत्वन्तरमिति । तमेव हेत्वन्तरमवयवान्तरेण सह दर्शयति-वाच. कत्वेत्यादि । भिन्नमित्यन्तं वाचकत्वादिशब्दधर्मप्रकारत्वमशक्यं वक्तुमित्यस्य विव- रणम् । नन्वित्यादि । अवाचक इति । गीतध्वन्यादावित्यर्थः । अविलक्षणमि- ति । वाचकत्वादेरित्यनुषङ्गः। गौणमिति । गौणीवृत्तिरित्यर्थः । वृत्तौ 'शब्दप्रकारा. णामिति निर्धारणे षष्टी, प्रकारत्वेनेत्यनेनास्य सम्बन्धः । शब्दप्रकाराणां मध्ये यः प्रकारस्तत्वेनेत्यर्थः । 'प्रसिद्धप्रकारविलणत्वेऽपीति । व्यञ्जकत्वस्य प्रसिद्धप्रकारेभ्यो वाचकत्वादिभ्यो वैलक्षण्य वस्तुतस्सत्यपीत्यर्थः । तदिति । तहत्यिर्थः । 'शब्दस्यैव प्रकारत्वेनेति । शब्दावान्तरभेदत्वेनेत्यर्थः । 'कस्मान्न परिकल्प्यत' इति । परिकल्पनं


 १. वाचकत्वेति । अयम्भावः-व्यञ्जनम् अभिधालक्षणान्यतरवावच्छिन्नप्रतियोगि. ताकभेदवत् शब्दवृत्तित्वे सति शब्देतरवृत्तित्वात् प्रमेयत्ववत् । गौण्याः पृथग्वृत्ति. स्ववादिमीमांसकनये तु तदुभयगौण्यन्यतमत्वावच्छिन्नप्रतियोगिताकभेदवदिति साध्य- रूपं वेद्यम् ।