पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२७
तृतीयोद्द्योतः


ञ्जकत्वस्यात्यन्तविलक्षणत्वम् । वाचकत्वगुणवृत्तिविलक्षणस्यापि च तस्य तदुभयाश्रयत्वेन व्यवस्थानम् ।

 व्यञ्जकत्वं हि कचिद्वाचकत्वाश्रयेण व्यवतिष्ठते, यथा विवक्षिता- न्यपरवाच्ये ध्वनौ । क्वचित्तु गुणवृत्त्याश्रयेण यथा अविवक्षितवाच्ये ध्वनौं । तदुभयाश्रयत्वप्रतिपादनायैव च ध्वनेः प्रथमतरं द्वौ प्रभेदावुप- न्यस्तौ । तदुभयाश्रितत्वाच्च तदेकरूपत्वं तस्य न शक्यते वक्तुम् । यस्मान्न तद्वाचकत्वैकरूपमेव, क्वचिल्लक्षणाश्रयेण वृत्तेः । न च लक्षणै-


लोचनम्

णवृत्तेश्च द्वितयादपि भिन्नं व्यञ्जकत्वमित्युपपादयति-वाचकत्वेति । चोऽवधारणे भिन्नक्रमः, अपिशब्दोऽपि न केवलं पूर्वोक्त्तो हेतुकलापो यावत्तदुभयाश्रयत्वेन मुख्योप- चाराश्रयत्वेन यद्व्यवस्थानं तदपि वाचकगुणवृत्तिविलक्षणस्यैवेति व्याप्तिघटनम् । तेनायं तात्पर्यार्थः-तदुभयाश्रयत्वेन व्यवस्थानात्तदुभयवैलक्षण्यमिति ।

 एतदेव विभजते-व्यञ्जकत्वं हीति । प्रथमतरमिति । प्रथमोद्द्योते 'स च' इत्यादिना ग्रन्थेन । हेत्वन्तरमपि सूचयति-न चेति । वाचकत्वगौणत्वोभयवृत्तान्त.

बालप्रिया

तदितरस्मादिति । गुणवृत्तिप्रकारादित्यर्थः । उभयत्र भिन्नमिति शेषः । पर्यायेण क्रमेण । च इति । 'विलक्षणस्यापि चे त्यत्रत्यचकार इत्यर्थः । भिन्नक्रम विलक्षणस्येत्यनेन योज्य इत्यर्थः । अपिशब्दोऽपीति । भिन्नक्रम इत्यनुषज्यते । क्वचिद्ग्रन्थे तथा पाठश्च । अपिशब्दस्य व्यवस्थानमित्यनेन सम्बन्ध इति भावः । अपिशब्दगम्यमर्थमाह-न केवलमित्यादि । तदुभयाश्रयत्वेने. त्यस्य विवरणम्-मुख्येत्यादि । वाचकत्वगुणवृत्युभयाश्रयत्वेनेत्यर्थः । इति व्याप्ति- घटनमिति । यद्यदाश्रयत्वेनावतिष्ठते तत्तद्विलक्षणमिति व्याप्तिर्दर्शितेत्यर्थः । तदुभ- याश्रयत्वेनेति । व्यञ्जकत्वस्येति शेषः । व्यञ्जकत्वं वाचकत्वाद्गुणवृत्तेश्च विलक्षणं तदुभयाश्रयत्वेनावस्थानादित्यर्थः ।

 एतदेवेति । उक्तमेवेत्यर्थः । विभजते विभज्य दर्शयति । प्रथमतरमिति । द्वितीयोद्योतापेक्षया तरपः प्रयोग इति व्याचष्टे-प्रथमेति । वृत्तौ 'न चे त्यादि । तदित्यनुषज्यते ।व्यञ्जकत्वमित्यर्थः । 'उभयधर्मत्वेनैव वाचकत्वगुणवृत्युभया- श्रयत्वेन हेतुनैव । 'तदेकैकरूपं न भवति' वाचकत्वादिमिन्नं भवति । इति न चेति सम्बन्धः । 'यावदि' त्यादि । यावत् किन्तु । 'वाचकत्वे ति। वाचकत्व- लक्षणादिरूपैः रहिता ये शब्दाः तद्धर्मत्वेनापीत्यर्थः । तत्तदेकैकरूपं न भवतीत्यस्यानु- षङ्गः । न चोभयेत्यादिग्रन्थमवतारयति लोचने-हेत्वन्तरमित्यादि । उक्त साध्ये इति इति ।