पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२६
सटीकलोचनोपेतध्वन्यालोके


तिर्गुणवृत्तिरिति न केनचिदुच्यते न च शक्यते वक्तुम् । व्यङ्गयालङ्का. रप्रतीतिरपि तथैव । वस्तुचारुत्यप्रतीतये स्वशब्दानभिधेयत्वेन यत्प्रति- पिपादयितुमिष्यते तद्व्यङ्ग्यम् । तच्च न सर्वं गुणवृत्तेर्विषयः प्रसिद्ध्यनुरो- धाभ्यामपि गौणानां शब्दानां प्रयोगदर्शनात् । तथोक्तंप्राक्। यदपि च गुणवृत्तेर्विषयस्तदपि च व्यञ्जकत्वानुप्रवेशेन | तस्माद्गुणवृत्तेरपि व्य-


लोचनम्

रूपावच्छिन्नमिति । व्यञ्जकत्वस्य यो विषयः स गुणवृत्तेर्न विषयः अन्यश्च तस्या विषयभेदो योज्यः । तत्र प्रथम प्रकारमाह-तत्रेति । न च शक्यत इति । लक्षणासामग्यास्तत्राविद्यमानत्वादिति हि पूर्वमेवोक्तम् । तथैवेति । न तत्र गुणवृत्ति. र्युक्रेत्यर्थः । वस्तुनो यत्पूर्वं विशेषणं कृतं तद्व्याचष्टे चारूत्वप्रतीतय इति । न सर्वमिति । किंचित्तु भवति । यथा-'निःश्वासान्ध इवादर्शः' इति । यदुक्तम्- 'कस्यचिद्ध्वनिभेदस्य सा तु स्यादुपलक्षणम्' इति । प्रसिद्धितो लावण्यादयः शब्दाः, वृत्तानुरोधव्यवहारानुरोधादेः 'वदति बिसिनीपत्रशयनम्' इत्येवमादयः । प्रागिति ! प्रथमोद्द्योते 'रूढा ये विषयेऽन्यत्र' इत्यत्रान्तरे ।न सर्वमिति यथास्माभिर्व्याख्यातं तथा स्फुटयति-यदपि चेति । गुणवृत्तेरिति पञ्चमी ।अधुनेतररूपोपजीवकत्वेन तदितरस्मात्तदितररूपोपजीवकत्वेन च तदितरस्मादित्यनेन पर्यायेण वाचकत्वाद्गु-

बालप्रिया

वस्तुमात्रं भवतु गुणवृत्तैर्विषयः व्यङ्गयत्वावच्छिन्नन्तु न तद्विषयः, यतो व्यङ्गयत्वं व्यञ्जनाव्यापारविषयत्वमित्यर्थः । अन्यश्चेति । प्रथमोद्योतोक्तश्चेत्यर्थः । तस्याः गुणवृत्तितः । याज्यः अत्रानुसन्धातव्यः । न च शक्यते वक्तुमित्यत्र गम्यं हेतुमाह- लक्षणेत्यादि । तथैवेत्येतत्तात्पर्यंतो व्याचष्टे-नेत्यादि । विशेषणमिति । व्यङ्ग्य- रूपावच्छिन्नमिति विशेषणमित्यर्थः । वृत्तौ 'रसादिप्रतीति रिति । रसादिप्रतीतिहेतुरि त्यर्थः । 'वस्त्व' त्यादि । यद्वस्त्विति सम्बन्धः । 'चारूत्वेति । काव्यचारुत्वेत्यर्थः । 'तझ्यङ्ग्यमिति । तथाविधं व्यङ्ग्यं व्यङ्ग्यरूपावच्छिन्नमित्यनेन विवक्षितमित्यर्थः । सर्वमित्यनेन गम्यमाह लोचने-किञ्चित्त्विति । यदुक्तमिति । यस्मादुक्तमित्यर्थः । प्रसिध्यनुरोधाभ्यामित्येतद्विवृणोति-प्रसिद्धित इत्यादि । प्रसिद्धितः रूढितः । यथा व्याख्यातमिति । किञ्चित्तु भवतीति व्याख्यातम् । स्फुटयतीति । स्वय- मिति शेषः। गुणवृत्तेरपीत्यत्र षष्ठीभ्रमस्स्यादत आह-पञ्चमीति । वाचकत्वेत्या. दिग्रन्थं भेदप्रदर्शनपरतया व्याख्यास्यावतारयति-अधुनेत्यादि । इतरेति । इतररूपं गुणवृत्तिस्तदुपजीवकत्वेन तत्समाश्रयत्वेनेत्यर्थः । तदितरस्मादिति । वाचकत्वादित्यर्थः । तदितरेत्यादि । तदितररूपं वाचकत्वं तदुपजीवकत्वेनेत्यर्थः ।