पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२५
तृतीयोद्द्योतः


 ननु त्वत्पक्षेऽपि यदार्थों व्यङ्गयत्रयं प्रकाशयति तदा शब्दस्य कीदृशो व्यापारः । उच्यते-प्रकरणाद्यवच्छिन्नशब्दवशेनैवार्थस्य तथा- विधं व्यञ्जकत्वमिति शब्दस्य तत्रोपयोगः कथमपह्वुयते । विषयभेदोऽपि गुणवृत्तिव्यञ्जकत्वयोः स्पष्ट एव । यतो व्यञ्जकत्वस्य रसादयोऽलङ्कार- विशेषा व्यङ्गयरूपावच्छिन्नं वस्तु चेति त्रयं विषयः । तत्र रसादिप्रती-


लोचनम्

 कीदृश इति मुख्यो वा न वा प्रकारान्तराभावात् । मुख्यत्वे वाचकत्वमन्यथा गुणवृत्तिः, गुणो निमित्तं सादृश्यादि तद्द्वारिका वृत्तिः शब्दस्य व्यापारो गुणवृत्तिरिति भावः । मुख्य एवासौ व्यापार : सामग्रोभेदाच्च वाचकत्वाद्यतिरिच्यत इत्यभिप्रायेणाह-उच्यत इति । एवमस्खलद्गतित्वात् कथञ्चिदपि। समयानुपयोगात्पृथगाभासमानत्वाच्चेति त्रिभिः प्रकारैः प्रकाशकत्वस्यैतद्विपरीतरूपत्रयायाश्च गुणवृत्तेः स्वरूपभेदं व्याख्याय विषयभेदमप्याह- विषयभेदोऽपीति । वस्तुमात्रं गुणवृत्तेरपि विषय इत्यभिप्रायेण विशेषयति-व्यङ्गय.

बालप्रिया

न्यस्थले तु स्यादित्याशङ्कय परिहरति-'यदि चे त्यादि। 'लक्षणाव्यवहार' इति । न व्यञ्जकत्वव्यवहार इति शेषः। मुख्यः शब्दव्यापारो लक्षणैवेति सम्बन्धः । 'इति प्राप्तमि' ति । स्यादिति शेषः । अत्र हेतुमाह-'यस्मादि' त्यादि ।

 उक्तमसहमानस्य प्रतिबन्द्या प्रत्यवस्थानम् -'नन्वि त्यादि। तदभिप्रायं व्याचष्टे लोचने-मुख्यो वेत्यादि । कल्पान्तराकरणे हेतुमाह-प्रकारान्तराभावादिति । तस्मिन्सति किं स्यादित्यतः क्रमेण दूषणमाह-मुख्यत्व इत्यादि । अमुख्यत्वे गुणवृत्तित्वं गुणवृत्तिशब्दार्थविवरणेन साधयति-गुणो निमित्तमित्यादि । उच्यत इत्यादिग्रन्थस्य भावमाह-मुख्य इत्यादि । असौ व्यापारः शब्दव्यापारः । ननु मुख्यत्वे वाचकत्वादभेदस्स्यादित्यत आह-सामग्रीभेदादिति । वृत्तौ 'प्रकरणे त्या- दिना सामग्रीभेदः प्रदर्शितः । 'तत्रे ति। अर्थेन व्यङ्गयत्रयप्रकाशनस्थल इत्यर्थः । 'उपयोग' इति । व्यञ्जकत्वलक्षणोपयोग इत्यर्थः । गुणवृत्तिव्यञ्जकत्वयोः स्वरूपभेदहे. तून् बहुग्रन्थोक्तान् सुग्रहत्वायैकग्रन्थेन वृत्यभिप्रायतया उपसंहरन्नुत्तरग्रन्थं तात्पर्यो- क्त्यावतारयति-एवमित्यादि । अस्खलद्गतित्वादिति । स्खलद्गतित्वाभावादि. त्यर्थः । कथञ्चिदपीत्यादि । असङ्केतितार्थप्रतिपादकत्वादित्यर्थः । पृथगिति । वाच्यार्थात्पृथगित्यर्थः । त्रिभिः प्रकारैरित्यस्य गुणवृत्तेस्स्वरूपभेदमित्यनेन स- म्बन्धः । एतदिति । एतद्विपरीतं रूपत्रयं स्खलद्गतित्वादिकं यस्यास्तस्या इत्यर्थः । गुणवृत्तेः गुणवृत्तितः । व्यङ्गयेत्यादिविशेषणस्य फलमाह-वस्तुमात्रमिति । एवं विशेषणेऽपि कथं गुणवृत्तिविषयव्यावृत्तिरित्यतस्तात्पर्यमाह-व्यञ्जकत्वस्येत्यादि ।

 ५४व०