पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२४
सटीकलोचनोपेतध्वन्यालोके


मुख्यतया व्यापारो गुणवृत्तिः प्रसिद्धा । व्यञ्जकत्वं तु मुख्यतयैव शब्दस्य व्यापारः । न ह्यर्थाद्व्यङ्गयत्रयप्रतीतिर्या तस्या अमुख्यत्वं मनागपि लक्ष्यते।

 अयं चान्यः स्वरूपमेदः- यद्गुणवृत्तिर मुख्यत्वेन व्यवस्थितं वाच. कत्वमेवोच्यते । व्यञ्जकत्वं तु वाचकत्वादत्यन्तं विभिन्नमेव । एतच्च प्रतिपादितम् । अयं चापरो रूपभेदो यद्गुणवृत्तौ यदार्थोऽर्थान्तरमुपल. क्षयति । तदोपलक्षणीयार्थात्मना परिणत एव सौ सम्पद्यते ।यथा 'गङ्गायां घोषः' इत्यादौ । व्यञ्जकत्वमार्गे तु यदार्थोऽर्थान्तरं द्योतयति यथा- 'लीलाकमलपत्राणि गणयामास पार्वती' इत्यादौ । यदि तदा स्वरूपं प्रकाशयन्नेवासावन्यस्य प्रकाशक: प्रतीयते प्रदीपवत् । यत्रातिरस्कृतस्वप्रतीतिरर्थोऽर्थान्तरं लक्षयति तत्र लक्षणाव्यवहारः क्रियते, तदेवं सति लक्षणैव मुख्यः शब्दव्यापार इति प्राप्तम् । यस्मात्प्रायेण वाक्यानां वाच्यव्यतिरिक्ततात्पर्यविषयार्थावभासित्वम् ।


लोचनम्

उपचारलक्षणयोः प्रथमोद्द्योत एव विभज्य निर्णीतं स्वरूपमिति न पुनर्लिख्यते । मु. ख्यतयैवेति । अस्खलद्गतित्वेनेत्यर्थः । व्यङ्गयत्रयमिति । वस्त्वलङ्काररसात्मकम् । वाचकत्वमेवेति । तत्रापि हि तथैव समयोपयोगोऽस्त्येवेत्यर्थः । प्रतिपादित. मिति । इदानीमेव । परिणत इति । स्वेन रूपेणानिर्भासमान इत्यर्थः ।

बालप्रिया

णया च या गुणवृत्तिः सा उभयाश्रयापीति वृत्तौ योजनेति भावः । पूर्वमुक्तं स्मारयति- उपचारलक्षणयोरिति । मुख्यतयैवेत्यत्र मुख्यत्वं प्रकृतानुरोधेन व्याचष्टे-- अस्खलवद्गतित्वेनेति वाचकत्वमेव गुणवृत्तिरित्येतद्विवणोति--तत्रापीत्यादि । तत्रापि गुणवृत्तावपि । तथैव यथावाचकत्वे तथैव । समयोपयोगः सङ्केतग्रहणो- पयोगः । अस्त्येवेत्यर्थ इति । गुणवृत्तेरभिधेयाविनाभूतप्रतीतित्वादिति भावः । वृत्तौ ‘यदार्थोऽर्थान्तरमि ति । 'अर्थः' प्रवाहादि । अर्थान्तरं, तीरादिकम् । परिणा- मो नाम पूर्वरूपपरित्यागेन रूपान्तरापत्तिः । परिणतपदं प्रकृतानुरोधेन व्यावष्टे लो. चने-स्वेनेत्यादि । वृत्तौ 'असा' विति । प्रवाहाद्यर्थ इत्यर्थः । 'यदार्थ' इति । 'अर्थः लीलाकमलपत्रगणनादिः। 'अर्थान्तर' लज्जादिकम् । स्वरूपं प्रकाशयन्नेवे' त्यादौ दृष्टान्तमाह-'प्रदीपवदि' ति। अर्थोऽर्थान्तरं द्योतयतीत्युक्तस्योदाहरणमाह-'यथा लीले'त्यादि । माभूदत्यन्ततिरस्कृतवाच्यस्थले गुणवृत्तिव्यञ्जकत्वयोः स्वरूपाभेदः, तद-