पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२३
तृतीयोद्द्योतः


एवं तावद्वाचकत्वादन्यदेव व्यञ्जकत्वम् । इतश्च वाचकत्वाव्द्यञ्ज. कत्वस्यान्यत्वं यद्वाचकत्वं शब्दैकाश्रयमितरत्तु शब्दाश्रयमर्थाश्रयं च शब्दार्थयोद्वयोरपि व्यञ्जकत्वस्य प्रतिपादितत्वात् ।

 गुणवृत्तिस्तूपचारेण लक्षणया चोभयाश्रयापि भवति। किन्तु ततोऽपि व्यञ्जकत्वं स्वरूपतो विषयतश्च भिद्यते । रूपभेदस्तावदयम्--यद-


लोचनम्

न्धित्वमनुपयुक्तसमयत्वमिति व्यङ्गयतायां निबन्धनं, तच्च प्राधान्येऽपि विद्यत इति स्वरूपमहेयमेवेति भावः । एतदुपसंहरति-एवमिति । विषयभेदेन स्वरूपभेदेन चेत्यर्थः । तावदिति वक्तव्यान्तरमासूत्रयति । तदेवाह-इतश्चेति । अनेन साम- ग्रीभेदात्कारणभेदोऽप्यस्तीति दर्शयति । एतच्च वितत्य ध्वनिलक्षणे 'यत्रार्थः शब्दो वा' इति वाग्रहणं, 'व्यङ्क्तः' इति द्विर्वचनं च व्याचक्षाणैरस्माभिः प्रथमोद्द्योत एव दर्शितमिति पुनर्न विस्तार्यते ।

 एवं विषयभेदात्स्वरूपभेदात्कारणभेदाच्च वाचकत्वान्मुख्यात्प्रकाशकत्वस्य भेदं प्रतिपाद्योभयाश्रयत्वाविशेषात्तर्हि व्यञ्जकत्वगौणत्वयोः को भेद इत्याशङ्कयामुख्या. दपि प्रतिपादयितुमाह-गुणवृत्तिरिति । उभयाश्रयापीति शब्दार्थाश्रया ।

बालप्रिया

त्वमिति । शब्दस्य सम्बन्धी वाच्यो लक्ष्यो वार्थः तत्सम्बन्धित्वमित्यर्थः । अनेन शब्दगम्यत्वं दर्शितम् । अर्थान्तरत्वे हेतुमाह-अनुपयुक्तसमयत्वमिति । सङ्केत. प्रद्दानपेक्षप्रतीतिविषयत्वमित्यर्थः । इतीति । एतन्त्रयमित्यर्थः । नन्वेतदस्तु ततः प्रकृते किमित्यत आइ-तच्चेत्यादि । प्राधान्येऽपीति । व्यङ्गयस्येति शेषः । वक्त- व्यान्तरमासूत्र यतीति । प्राथम्यार्थकत्वात्तावच्छब्दस्येति भावः । तदेवेति । वक्तव्यान्तरमेवेत्यर्थः । वृत्तावित इत्यनेन यदित्यादिवक्ष्यमाणः आश्रयभेदरूपो हेतुः परामृश्यत इत्यक्षिप्रेत्य व्याचष्टे-अनेनेत्यादि । सामग्रीभेदादिति। सहकारिव. र्गभेदादित्यर्थः । वृत्तावाश्रयशब्देन कारणमुच्यत इत्याह-कारणभेदोऽपीति । अर्थ- स्य व्यञ्जकत्वाश्रयत्वं शब्दायत्तमेवेति यद्यपि शब्द एव वाचकत्वस्येव व्यञ्जकत्वस्यापि मुख्य आश्रय इति कारणैक्यमस्ति, तथापि सहकारिभेदात्कारणरूपस्य शब्दस्य भेदोऽपीत्यर्थः । शब्दार्थयोरित्यादेर्विवरणम्-एतच्चेत्यादि ।

 'गुणवृत्तिस्त्वि'त्यादिग्रन्थं वृत्तानुवादपूर्वकमवतारयति-एवमित्यादिना । एवं मुख्यावाचकत्वादभेदं प्रतिपाद्य अमुख्यादपि प्रतिपादयितुमाहेति सम्बन्धः । किमि- दार्नी तत्प्रतिपादन मित्यत उक्तः उभयाश्रयत्वाविशेषादित्यारभ्याशङ्कयेत्यन्त ग्रन्थः । तर्हीति । यदि वाचकत्वव्यञ्जकत्वयोर्भेदः, तर्हीत्यर्थः । क इति । नेत्यर्थः । उपचार- लक्षणारूपोभयेत्यर्थभ्रमः स्यादत उभयाश्रयेत्येतद्वयाचष्टे-शब्देत्यादि । उपचारेण लक्ष.