पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५०१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२२
सटीकलोचनोपेतध्वन्यालोके


क्वचिद्वाच्यस्य प्राधान्यमपरस्य गुणभावः । तत्र व्यङ्गयप्राधान्ये ध्वनि- रित्युक्तमेव ; वाच्यप्राधान्ये तु प्रकारान्तरं निर्देश्यते । तस्मात्स्थितमेतत्- व्यञ्गयपरत्वेऽपि काव्यस्य न व्यङ्ग्यस्याभिधेयत्वमपि तु व्यङ्गयत्वमेव।

 किं च व्यङ्ग्यस्य प्राधान्येनाविवक्षायां वाच्यत्वं तावद्भवद्भिर्नाभ्यु- पगन्तव्यमतत्परत्वाच्छब्दस्य । तदस्ति तावद्व्यङ्गथः शब्दानां कश्चिद्विषय इति । यत्रापि तस्य प्राधान्यं तत्रापि किमिति तस्य स्वरूपमपह्नूयते ।


लोचनम्

श्रुतो हि शब्दो यत्रैव समयस्मृतिं करोति स चेदनेनैवागमितः तद्विरम्यव्यापारा- भावात्समयस्मरणानां बहूनां युगपदयोगात्कोऽर्थभेदस्यावसरः ।"पुनः श्रुतस्तु स्मृतो वापि नासाविति भावः । तयोरिति वाच्यव्यङ्गययोः । तत्रेति । उभयोः प्रका- रयोर्मध्याद्यदा प्रथमः प्रकार इत्यर्थः । प्रकारान्तरमिति ।गुणीभूतव्यङ्गयसज्ञितम्। व्यङ्गयत्वमेवेति प्रकाश्यत्वमेवेत्यर्थः ।

 ननु यत्परः शब्दः स शब्दार्थ इति व्यङ्गयस्य प्राधान्ये वाच्यत्वमेव न्याय्यम् , तर्ह्यप्राधान्ये किं युक्तं व्यङ्गयत्वमिति चेत्सिद्धो नः पक्षः, एतदाह-किञ्चेति । ननु प्राधान्ये मा भूद्वयङ्गयदत्वमित्याशङ्कयाह-यत्रापीति । अर्थान्तरत्वं सम्बन्धिसम्ब.

बालप्रिया

एव । समयस्मृतिं सङ्केतस्मरणम् । करोति उद्बोधकत्वाज्जनयति । सः सोऽर्थः । अनेनैव सकृच्छ्रुतेन शब्देनैव । अवगमितश्चेत् प्रकरणादिसहकारेण बोधितो यदि । तत् तर्हि कोऽर्थभेदस्यावसर इत्यनेनास्य सम्बन्धः । ननु समयस्म- रणञ्चेदर्थावगमे कारणं, तर्हि तान्यपि बहूनि भवन्त्वित्याशङ्कायां तानि क्रमेण युगप- द्वेति विकल्पाद्यं निराकरोति-विरम्यव्यापाराभावादिति । द्वितीयं निराकरोति- समयेत्यादि । ननु श्लेषविषये बह्वर्थत्वं दृश्यत इत्यत आह-पुनरित्यादि । श्रुतस्तु स्मृतो वापीत्युभयत्र शब्द इति शेषः । यद्वा श्रुतः अनुसंहितः शब्द इति शेषः । स्मृतः अर्थ इति शेषः। नासाविति। पूर्वः शब्दोऽर्थो वा नेत्यर्थः । तथाच श्लेषस्थले आवृत्या बोधाद्वाक्यतदर्थौ भिन्नौ तयोरेकत्वञ्चौपचारिकमिति भावः । वृत्तौ 'नैष दोष' इति । न वाक्यभेदरूपदोष इत्यर्थः । 'गुणेति। तथाच वाच्योपसर्जनको व्यङ्गयो व्यङ्गयोपसर्जनकवाच्यो वैक एवार्थो वाक्ये न प्रतिपाद्यत इति भावः।

 किञ्चेत्यादिग्रन्थमवतारयति लोचने-नन्वित्यादि। न्याय्यमित्यन्तः पूर्वपक्षः । तह्यप्राधान्ये किं युक्तमिति सिद्धान्ती पृष्ट्वा पूर्वपक्षिण उत्तरमनुवदन्नाह-व्यङ्गयत्व- मिति चेदित्यादि । अनेनास्तितावदित्यादिवृत्तिग्रन्थो विश्रुतः । भावमाह-अर्था- न्तरत्वमित्यादि । अर्थान्तरत्वं मुख्याभिन्नार्थत्वम् । सम्बन्धिसम्बन्धि.