पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२१
तृतीयोद्द्योतः


भवति, वाच्यावभासाविनाभावेन तस्य प्रकाशनात् । तस्माद्घटप्रदीपन्या. यस्तयोः, यथैव हि प्रदीपद्वारेण घटप्रतीतावुत्पन्नायां न प्रदीपप्रकाशो निवर्तते तद्वद्व्यङ्ग्यप्रतीतौ वाच्यावमासः । यत्तु प्रथमोद्द्योते 'यथा पदा. र्थद्वारेण' इत्यादयुक्तं तदुपायत्वमात्रात्साम्यविवक्षया ।

 नन्वेवं युगपदर्थद्वययोगित्वं वाक्यस्य प्राप्तं तद्भावे च तस्य वाक्य- तैव विघटते, तस्या ऐकार्यलक्षणत्वात् । नैष दोषः ; गुणप्रधानभावेन तयोर्व्यवस्थानात् । व्यङ्गयस्य हि क्वचित्प्राधान्यं वाच्यस्योपसर्जनभावः


लोचनम्

एवं पदार्थवाक्यार्थन्यायं तात्पर्यशक्तिसाधकं प्रकृते विषषे निराकृत्याभिमतां प्रकाश- शक्ति साधयितुं तदुचितं प्रदीपघटन्यायं प्रकृते योजयन्नाह-तस्मादिति । यतो- ऽसौ पदार्थवाक्यार्थन्यायो नेह युक्तस्तस्मात् , प्रकृतं न्यायं व्याकरणपूर्वकं दार्ष्टान्तिके योजयति-यथैव हीति ।

 ननु पूर्वमुक्तम्-

यथा पदार्थद्वारेण वाक्यार्थः स प्रतीयते ।
वाक्यार्थपूर्विका तद्वत्प्रतिपत्तस्य वस्तुनः ॥

 इति तत्कथं स एव न्याय इह यत्नेन निराकृत इत्याशङ्कयाह-यत्त्विति। तदिति। न तु सर्वथा साम्येनेत्यर्थः । एवमिति । प्रदीपघटवद्युगपदुभयावभासप्रकारेणेत्यर्थः । तस्या इति वाक्यतायाः । ऐकार्थ्र्यलक्षणमर्थैकत्वाद्धि वाक्यमेकमित्युक्तम् । सकृत्

बालप्रिया

प्रतीत्योः प्रयोजनैक्यस्याभावादित्यर्थः । दूरीभावश्च नेष्ट इत्यतस्तयोः पृथगुपलम्भो नाभ्युपेय इति भावः । प्रकृते विशेषमाह-'न त्वेष' इत्यादि । कुत इत्यत आह- 'न हीत्यादि । न हि दूरीभवतीति सम्बन्धः। अत्र हेतुमाह-वाच्येत्यादि । वाच्येन सह व्यङ्गयस्य पृथक्प्रतीतेरित्यर्थः। लोचने 'तस्मादित्यादिग्रन्थमवतारयति-एव. मित्यादि । प्रकृतन्यायं घटप्रदीपन्यायम् । व्याकरणपूर्वकं विवरणपूर्वकम् । तदुपायत्वमात्रात्साम्येत्यत्रत्यमात्रैपदव्यावत्यं दर्शयति-न त्वित्यादि । ऐकार्थ्यं. लक्षणमिति । एकः अर्थो यस्य तस्य भावः ऐकार्थ्यम् । अस्य लक्षणत्वे प्रमाण- माह-अर्थेकत्वादिति । नन्वेकार्थत्वं न लक्षणं श्लेषालङ्कारविषयस्यानेकार्थस्यापि वाक्यत्वादिति शङ्कामभिप्रायप्रदर्शनेन परिहरति-सकृदित्यादि । यत्रैव यदर्थं


 १. 'अर्थेकत्वादेकं वाक्यं साकासश्चेद्विभागे स्यात्' इति जैमिनिसूत्रं द्रष्टव्यम् ।