पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२०
सटीकलोचनोपेतध्वन्यालोके


सत्यैवेति कैश्चिद्विवद्भिरास्थितम् । यैरप्यसत्यत्वमस्या नाभ्युपेयते तैर्वा- क्यार्थपदार्थयोर्घटतदुपादानकारणन्यायोऽभ्युपगन्तव्यः । यथाहि घटे नि- ष्पन्ने तदुपादानकारणानां न पृथगुपलम्भस्तथैव वाक्ये तदर्थे वा प्रतीते पदतदर्थानां तेषां तदा विभक्ततयोपलम्भे वाक्यार्थबुद्धिरेव दूरीभवेत् । न त्वेष वाच्यव्यङ्ग्ययोर्न्यायः, न हि व्यङ्गये प्रतीयमाने वाच्यबुद्धिर्दूरी


लोचनम्

कैश्चिदिति वैयाकरणैः । यैरपीति भट्टप्रभृतिभिः । तमेव न्यायं व्याचष्टे- यथाहीति। तदुपादानकारणानामिति । समवायिकारणानि कपालानि अन- योक्त्या निरूपितानि । सौगतकापिलमते तु यद्यप्युपादातव्य घटकाले उपादा. नानां न सत्ता एकत्र क्षणक्षयित्वेन परत्र तिरोभूतत्वेन तथापि पृथक्तया नास्त्यु पलम्भ इतीयत्यंशे दृष्टान्तः । दूरीभवेदिति । अर्थैकत्वस्याभावादिति भावः ।

बालप्रिया

अर्थान्तर इति शेषः । अर्थान्तरप्रतीत्यनुकूला वाक्यस्य या शक्तिस्सा तात्प र्यशक्तिरेव न त्वदभिमतेति भावः । वृत्तौ 'न चेत्यादि । यथा पदार्थे प्रतीते तात्पर्य शक्त्या वाक्यार्थो गम्यते, तथा वाक्यार्थे प्रतीतेऽर्थान्तरन्चेति न युक्तमित्यर्थः। अर्थान्तरं तात्पर्यशक्तिगम्यं पदसमुदायगम्यत्वात्, वाक्यार्थवदित्यनुमानमत्र शङ्कितु- रभिप्रेतम् । न चेत्यत्र हेतुमाह-'यत इत्यादि । अनेन दृष्टान्तवैषम्यादिति हेतुर्द- र्शितः। 'असत्यैवेति । स्फोटरूपवाक्यार्थस्यैव सत्यत्वादिति भावः । लोचने-भट्टप्र- भृतिभिरिति । प्रभृतिपदेन नैयायिकादीनां ग्रहणम् । समवायीति । उत्पद्यमानं वस्तु यत्र समवैति तत्समवायकारणम् । कपालानि शकलानि । अनयोक्त्या उपादानकारणशब्देन । निरूपितानि दर्शितानि । ननु यैरपीति सामान्येनोक्तिर्न घटते सौतगकापिलमतयोरुपादेयकाले उपादानाभावादिति शङ्कते--सौगतेत्यादि । न सत्तेत्यत्र हेतुमाह-एकवेत्यादि । एकत्र सौगतमते । क्षणेति । उपादानाना- मित्यनुषज्यते । यत्सत्तक्षणिकमिति हि तन्मतम् । अपरत्र कापिलमते । तिरो. भूतत्वेन उपादानानां तिरोभावेन । समाधत्ते-तथापीत्यादि । वृत्तौ 'वाक्य' इत्यादि । यद्यपि पदार्थवाक्यार्थयोरेव प्रकृतत्वं, तथापि पदवाक्यग्रहणं दृष्टान्तार्थम् । 'पदतदर्थाना मिति । न पृथगुपलम्भ इत्यनुषङ्गः । वाक्ये प्रतीते तस्मात्पदानां वाक्यार्थे प्रतीते तस्मात्पदार्थानाञ्च पृथक्तया उपलम्भो नास्तीत्यर्थः । पृथगुपलम्भे दोषं दर्शयति-तेषामित्यादि। 'तेषा' पदतदर्थानाम् । 'तदा' तत्प्रतीतिकाले। 'विभक्त- तया वाक्याद्वाक्यार्थाच्च विभागेन । 'दूरीभवेदिति । पदार्थप्रतीतेर्दूरे भवेदित्यर्थः । अत्र.गम्यं हेतुं दर्शयति लोचने-अर्थैकत्वस्याभावादिति पदार्थवाक्यार्थ-