पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१९
तृतीयोद्द्योतः


द्धाभिधानान्तरसम्बन्धयोग्यत्वेन च तस्यार्थान्तरस्य प्रतीतेः शब्दान्त. रेण स्वार्थाभिधायिना यद्विषयीकरणं तत्र प्रकाशनोक्तिरेव युक्ता ।

 न च पदार्थवाक्यार्थन्यायो वाच्यव्यङ्गयोः । यतः पदार्थप्रतीतिर-


लोचनम्

यद्विषयीकरणं तत्र प्रकाशनोक्तिरेव युक्ता न वाचकत्वोक्तिः शब्दस्य, नापि वाच्यत्वोक्ति- रर्थस्य तत्र युक्ता, वाचकत्वं हि समयवशादव्यवधानेन प्रतिपादकत्वं, यथा तस्यैव शब्दस्य स्वार्थे; तदाह-स्वार्थाभिधायिनेति । वाच्यत्वं हि समयवलेन निर्व्यवधानं प्रतिपाद्यत्वं यथा तस्यैवार्थस्य शब्दान्तरं प्रति तदाह-प्रसिद्धति । प्रसिद्धेन वाच- कतयाभिधानान्तरेण यः सम्बन्धो वाच्यत्वं तदेव तत्र वा यद्योग्यत्वं तेनोपलक्षितस्य । न चैवविधं वाचकत्वमर्थं प्रति शब्दस्येहास्ति, नापि तं शब्दं प्रति तस्यार्थस्योक्तरूपं वाच्यत्वम् । यदि नास्ति तर्हि कथं तस्य विषयीकरणमुक्तीमत्याशङ्कयाह-प्रतीतेरिति । अथ च प्रतीयते सोऽर्थो न च वाच्यवाचकत्वव्यापारणेति विलक्षण एवासौ व्यापार इति यावत् ।

 नन्वेवं मा भूदाचकशक्तिस्तथापि तात्पर्यशक्तिर्भविष्यतीत्याशङ्कयाह-न चेति ।

बालप्रिया

तस्मिन्नर्थे । प्रकाशनोक्तिः अवगमकत्वोकिः । शब्दस्य गङ्गादिशब्दस्य । न वाच- कत्वोक्तिर्युक्तत्यत्र हेतुत्वेन स्वार्थाभिधायिनेति पदं वाचकत्वनिर्वचनपूर्वकमवतार- यति-वाचकत्वं हीत्यादि । तस्यैव शब्दस्य गङ्गादिशब्दस्य । स्वार्थे प्रवा- हादौ। तदाह तदभिप्रायेणाह । न वाच्यत्वोक्तिर्युक्तत्यत्र हेतुत्वेन प्रसिद्धत्या. दिग्रन्थं वाच्यत्वलक्षणोक्तिपुरस्सरमवतारयति-वाच्यत्वं हीत्यादि । अर्थस्य शैत्यपावनत्वादेः । शब्दान्तरं शैत्यपावनत्वादिशब्दम् । प्रकृतानुगुणं व्याचष्टे- प्रसिद्धनेत्यादि । वाचकतयेति पूरितम् । अभिधानान्तरेण शब्दान्तरेण शैत्य- पावनत्वादिशब्देन । तत्र वेति । तत्र वाच्यत्वे तन्निरूपितमित्यर्थः । योग्यत्व. मर्हत्वम् । तेनोपलक्षितस्येत्यर्थान्तरस्येत्यस्य विशेषणं योग्यत्वेनेत्युपलक्षणे तृतीयेति भावः । निगमयति-न चैवमित्यादि। अर्थं शैत्यपावनत्वाद्यर्थम् । शब्दस्य गङ्गादिशब्दस्य । योग्यत्वेनेत्युपलक्षणे तृतीयेति व्याख्यानात्प्रतीतेरित्यनेन तदन्वय- स्य निरस्तत्वात्तत्पदमवतारयति-यदीत्यादि । यदि नास्तीन्यनेन न चैवंविधमित्या- युक्तस्यानुवादः । तस्य शैत्यपावनत्वाद्यर्थस्य । विषयीकरणमिति । गङ्गादिशब्दे- नेति शेषः। अथ चेति वृत्तिस्थचकारार्थविवरणम् । सोऽर्थः शैत्यपावनत्वाद्यर्थः । व्यापारेणेत्यनन्तरं किन्तु व्यापारान्तरेणेति शेषः। तथा च फलितमाह-इतीत्यादि ।

 प्रकृतसन्दर्भानुगुणमवतारयति-नन्वित्यादि । तात्पर्यशक्तिर्भविष्यतीति ।