पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१८
सटीकलोचनोपेतध्वन्यालोके


इत्यादिश्लोके चेष्टाविशेषः सुकविनार्थप्रकाशनहेतुः प्रदर्शित एव । तस्मा- द्भिन्नविषयत्वाद्भिन्नरूपत्वाच्च स्वार्थाभिधायित्वमर्थान्तरावगमहेतुत्वं च शब्दस्य यत्तयोः स्पष्ट एव भेदः । विशेषश्चेन्न तर्हीदानीमवगमनस्या भिधेयसामर्थ्याक्षिप्तस्यार्थान्तरस्य वाच्यत्वव्यपदेश्यता । शब्दव्यापारगो. चरत्वं तु तस्यास्माभिरिष्यत एव, तत्तु व्यङ्गथत्वेनैव न वाच्यत्वेन । प्रसि-


लोचनम्

तस्यावाचकस्याप्यवगमकारित्वदर्शनाद वगमकारिणोऽप्यवाचकत्वेन प्रसिद्धत्वादिति तात्पर्यम् । एतदुपसंहरति-तस्माद्भिन्नेति । न तर्हीति । वाच्यत्वं ह्यभि. धाव्यापारविषयता न तु व्यापारमात्रविषयता, तथात्वे तु सिद्धसाधनमित्येतदाह- शब्दव्यापारेति ।

 ननु गीतादौ मा भूद्वाचकत्वमिह त्वर्थान्तरेऽपि शब्दस्य वाचकत्वमेवोच्यते, किं हि तद्वाचकत्वं सङ्कोच्यत इत्याशङ्कयाह-प्रसिद्धेति । शब्दान्तरेण तस्यार्थान्तरस्य

बालप्रिया

एतदुभयं वाचकत्वगमकत्वोभयम् । गीतशब्दे बाष्पावेशादौ च नास्तीत्यन्वयः, किन्तु अवगमकत्वमेवास्तीति भावः । अधोवक्त्रत्वेत्यादिना व्रीडायोगादिति श्लोकप्र. तिपादितार्था दशिताः । कुत इत्यत्राह-तस्येत्यादि । तस्य गीतशब्दादेः । इति तात्पर्यमिति । अवाचकस्येत्यादेः प्रदर्शित एवेत्यन्तवृत्तिग्रन्थस्य तात्पर्यमित्यर्थः । एतदिति । वाचकत्वव्यञ्जकत्वयोभेदसमर्थनेन अविशेषपक्षनिराकरणमित्यर्थः । वृत्तौ 'विशेषश्चेदिति । तयोरित्यनुषङ्गः। 'अवगमनस्येति। अवगमन व्यापारसम्बन्धि यदर्थान्तरमिति सम्बन्धः । अवगमनीयस्येति च पाठः। अवगमनसम्बन्धित्वे हेतु माह-'अभिधेये त्यादि । न वाच्यत्वव्यपदेश्यतेत्युक्तं विवृणोति-वाच्यत्वं ह्यभि. धाव्यापार विषयतेति । साक्षात्तद्विषयतेत्यर्थः । व्यापारमात्रेति । व्यापारसामा• न्येत्यर्थः । तथात्व इति व्यापारमात्रगोचरत्वे सतीत्यर्थः । सिद्धसाधनमिति । तस्यार्थस्य व्यञ्जनाव्यापारविषयताया अस्मन्मतसिद्धायास्साधनात् सिद्धसाधनं नाम दोष इत्यर्थः ।

 'प्रसिद्धत्यादिप्रन्थं शङ्कोत्तरत्वेनावतारयति-न्वित्यादि । माभूद्वाचकत्व- मिति । वाच्यस्याभावादिति भावः । इह तु शब्दस्येति सम्बन्धः । इह काव्ये । तु. शब्दो विशेधे । शब्दस्य वाचकस्य । अर्थान्तरे व्यङ्यत्वेनाभिमते । अपीति समु- च्चये कि हीत्यादि । अर्थान्तरत्वस्य न तत्सङ्कोच कत्वमिति भावः । अन्वयं प्रदर्शयन् प्रकाशनोक्तिरेव युक्तेत्येवकारार्थं व्याचष्टे-शब्दान्तरेणेत्यादि । शब्दान्तरेण 'गङ्गायां घोष' इत्यादौ गङ्गादिशब्देन । तस्यार्थान्तरस्य शैत्यपावनत्वादेः । तत्र