पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१७
तृतीयोद्द्योतः


कत्वलक्षणस्त्वर्थान्तरविषयः । न च स्वपरव्यवहारो वाच्यव्यङ्ग्ययोरपह्णोतुं शक्यः, एकस्य सम्बन्धित्वेन प्रतीतेरपरस्य सम्बन्धिसम्बन्धित्वेन । वाच्यो ह्यर्थः : साक्षाच्छब्दस्य सम्बन्धी तदितरहवभिधेयसामर्थ्याक्षिप्तः सम्ब- न्धिसम्बन्धी । यदि च स्वसम्बन्धित्वं साक्षात्तस्य स्यात्तदार्थान्तरत्वव्य. वहार एव न स्यात् । तस्माद्विषयभेदस्तावत्तयोर्व्यापारयोः सुप्रसिद्धः । रूपभेदोऽपि प्रसिद्ध एव । न हि यैवाभिधानशक्तिः सैवावगमनशक्तिः। अवाचकस्यापि गीतशब्दादे रसादिलक्षणार्थावगमदर्शनात् । अशब्द. स्यापि चेष्टादेरर्थविशेषप्रकाशनप्रसिद्धः । तथाहि 'व्रीडायोगान्नतवदनया'


लोचनम्

इत्याशङ्कयाह-न चेति । न स्यादिति । एवकारो भिन्नक्रमः, नैव स्यादित्यर्थः । यावता न साक्षात्सम्बन्धित्वं तेन युक्त एवार्थान्तरव्यवहार इति विषयभेद उक्तः । ननु भिन्नेऽपि विषये अक्षशब्दादेर्वह्वर्थस्य एक एवाभिधालक्षणो व्यापार इत्याशङ्कय रूपभेदमुपपादयति-रूपभेदोऽपीति . । प्रसिद्धिमेव दर्शयति-न हीति । विप्रतिपन्नं प्रति हेतुमाह-आवचकस्यापीति । यदेव वाचकत्वं तदेव गमकत्वं यदि स्यादवाचकस्य गमकत्वमपि न स्यात् , गमकत्वे नैव वाचकत्वमपि न स्यात् । न चैतदुभयमपि गीतशब्दे शब्दव्यतिरिक्ते चाधोवक्त्रत्वकुचकम्पनबाष्पावेशादौ

बालप्रिया

तस्य अर्थान्तरस्य । न कश्चिदिति । गमकोऽभिधाय कश्च कश्चिन्नेत्यर्थः । ततः किमिः त्यत आह-इतीत्यादि । विषयार्थः विषरूपोऽर्थः। यद्वा- -विषयशब्दस्यार्थः। क इति । अर्थान्तरं शब्दस्य विषयो न भवेदित्यर्थः । इत्याशङ्कयाहेति । न चेत्यादिना न स्यादित्यन्तेनाहेत्यर्थः । एवकार इति । व्यवहार एवेत्येवकार इत्यर्थः। भावं विवृणोति-यावतेत्यादि । यावता येन हेतुना । ननु भिन्नविषयत्वसमर्थनेनै- वेष्टसिद्धौ रूपभेदसमर्थनं किमर्थमित्यतस्तद्ग्रन्थमवतारयति-नन्वित्यादि । अक्षश- ब्दादेरित्यादिपदेन हर्यादिशब्दो गृह्यते । वह्वर्थस्येति । इन्द्रियाद्यनेकार्थकस्यैत्यर्थः । एक एवेति । आवृत्यपेक्षत्वेऽपि तत्र तत्रार्थे अभिधैव व्यापार इति भावः । स्वरूप. भेदे प्रसिद्धि हेतुमुक्त्वा पुनर्हेत्वन्तरोक्त्तौ बीजं दर्शयति-विप्रतिपन्नं प्रतीति । विप्रतिपन्नं वाचकत्वमेव गमकत्वं नान्यदनुभूयत इति वदन्तम् । भावं व्याचष्टे- यदेवेत्यादिना । न स्यादित्यत्र हेतुमाह-गमकत्व इत्यादि । गमकत्वे सति वाचक. त्वमपि नैव न स्यादिति योजना । स्यादेवेत्यर्थः । यत इति शेषः । न चेति ।

 ५३ ध्व०