पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१६
सटीकलोचनोपेतध्वन्यालोके


 अत्रोच्यते-यत्र शब्दः स्वार्थमभिदधानोऽर्थान्तरमवगमयति तत्र यत्तस्य स्वार्थाभिधायित्वं यच्च तदर्थान्तरावगमहेतुत्वं तयोरविशेषो विशेषो वा । न तावदविशेषः । यस्मात्तौ द्वौ व्यापारौ भिन्नविषयौ भिन्नरूपौ च प्रतीयते एव । तथाहि वाचकत्वलक्षणो व्यापारः शब्दस्य स्वार्थविषयः गम.


लोचनम्

इति शब्दावगतैः पदार्थैस्तात्पर्येण योऽर्थ उत्थाप्यते स एव वाक्यार्थः, स एव च वाच्य इति । प्राभाकरदर्शनेऽपि दीर्घदीर्घो व्यापारो निमित्तिनि वाक्याथे, पदार्थानां तु निमित्तभावः पारमार्थिक एव । वैयाकरणानां तु सोऽपारमार्थिक इति विशेषः । एत- च्चास्माभिः प्रथमोद्द्योत एव वितत्य निर्णीतमिति न पुनरायस्यते ग्रन्थयोजनैव तु क्रियते । तदेतन्मत्रयं पूर्वपक्षे योज्यम् ।

अत्रेति पूर्वपक्षे । उच्यत इति सिद्धान्तः ।वाचकत्वं गमकत्वं चेति स्वरूपतो भेदः स्वार्थेऽर्थान्तरे च क्रमेणेति विषयतः। ननु तस्माच्चेदसौ गम्यते: ऽर्थः कथं तर्ह्युच्यतेऽर्थान्तरमिति । नो चेत्स तस्य न कश्चिदिति को विषयार्थ

बालप्रिया

न्नपाकार्थं प्रवृत्तानां काष्ठानां ज्वलनम् । अतः पदानां वाक्यार्थमितिपर्यन्त एवाभि- धाव्यापारो यथा काष्ठव्यापारः पाकान्त इत्यर्थः । इतीति । इत्युक्तनयेनेत्यर्थः शब्दावगतैरिति । वाक्यगतपदावगतैरित्यर्थः । स एवेति । एवकारेण पदार्थव्याः वृत्तिः पदार्थप्रतीते रुपायमात्रत्वेन तस्यातात्पर्य विषयत्वात् । व्यापार इति । वाक्या- त्मकपदानामिति शेषः । निमित्तिनीति । नैमित्तिके कार्यरूपे इत्यर्थः । वाक्यार्थस्य नैमित्तिकत्वोक्त्यैव पदार्थानां निमित्तत्वे सिद्धेऽपि वैयाकरणमताद्विशेषं दर्शयितुमाह- पदार्थानान्त्विति । उत्पत्त्यपेक्षया पदार्थवाक्यार्थयोर्निमित्तनिमित्तिभावोक्तिः, प्रतीतिस्तु प्रथमं वाक्यार्थस्य प्राभाकरमते कार्यान्विताभिधानादिति बोध्यम् । सोऽ. पारमार्थिक इति । अविद्यात्मकत्वादपारमार्थिक इत्यर्थः । सङ्क्षिप्य मतत्रयोपन्या सस्य फलमाह-तदेतदिति । योज्यमिति । अन्यथा निर्मूलत्वप्रसङ्गादिति भावः ।

 'उच्यते' इत्यत्र पूरयति-सिद्धान्त इति । यत्रेत्यादिवृत्तिप्रन्थेनाभिहितौ स्वरूप विषयभेदौ स्फुटयति-वाचकत्वमित्यादि । विषयत इति । भेद इत्यनुषज्यते । समयापेक्षत्वात्स्वार्थे अभिधा तदनपेक्षत्वादन्यत्रार्थे अवगमनव्यापार इति भावः । 'न च स्वपरेत्यादिग्रन्थमवतारयति-नन्वित्यादि । तस्मादिति । यस्मादभिधेयस्या. र्थस्य प्रतीतिः तस्माच्छब्दादित्यर्थः । असो व्यङ्ग्यत्वेनाभिमतः । ननु न गम्यते तस्माच्छब्दात्किन्तु तत्सम्बन्धिवशादित्यत आह-नो चेदित्यादि । सः सशब्दः ।