पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/५०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२९
तृतीयोद्द्योतः


रुप्यते । तदेवं शाब्दे व्यवहारे त्रयः प्रकाराः-वाचकत्वं गुणवृत्तिर्व्यं- ञ्जकत्वं च। तत्र व्यञ्जकत्वे यदा व्यङ्गयप्राधान्यं तदा ध्वनिः, तस्य चावि. वक्षितवाच्यो विवक्षितान्यपरवाच्यश्चेति द्वौ प्रभेदावनुक्रान्तौ प्रथमतरं तौ सविस्तरं निर्णीतौ ।

 अन्यो श्रूयात्-ननु विवक्षितान्यपरवाच्ये ध्वनौ गुणवृत्तिता


लोचनम्

वेति । व्यञ्जकत्वं वाचकत्वमिति यदि पर्यायौ कल्प्येते तर्हि व्यञ्जकत्वं शब्द इत्यपि पर्यायता कस्मान्न कल्प्यते, इच्छाया अव्याह्रतत्वात् । व्यञ्जकत्वस्य तु विविक्तं स्वरू. पं दर्शितं तद्विषयान्तरे कथं विपर्यस्यताम् । एवं हि पर्वतगतो धूमोऽनग्निजोऽपि स्यादिति भावः । अधुनोपपादितं विभागमुपसंहरति-तदेवमिति । व्यवहारग्रहणेन समुद्रघोषादीन् व्युदस्यति ।

 ननु वाचकत्वरूपोपजीवकत्वाद्गुणवृत्त्यनुजीवकत्वादिति च हेतुद्वयं यदुक्तं तदवि- वक्षितवाच्यभागे सिद्ध न भवति तस्य लक्षणैकशरीरत्वादित्यभिप्रायेणोपक्रमते-अन्यो ब्रूयादिति । यद्यपि च तस्य तदुभयाश्रयत्वेन व्यवस्थानादिति ब्रुवता निर्णीतचरमेवै. तत् , तथापि गुणवृत्तेरविवक्षितवाच्यस्य च दुर्निरूपं वैलक्षण्यं यः पश्यति तं प्रत्याश-

बालप्रिया

स्यादित्यर्थः । विवृणोति लोचने-व्यञ्जकत्वमित्यादि । इतीति । इतिशब्दावित्यर्थः । पर्यायौ एकार्थकौ । इत्यपीति । इत्यनयोरपीत्यर्थः । अस्तु पर्यायतेत्यत आह- व्यञ्जकत्वस्येत्यादि । विविक्तं वाचकत्वादेर्विविक्तम् । दर्शितमिति । गीतध्वन्या- दाविति भावः । अतश्च वाचकत्वादिरूपेण परिकल्पनमयुक्तमित्याह-तदित्यादि । तद्विषयान्तर इति । वाचकगतं व्यञ्जकत्वमित्यर्थः । कथं विपर्यस्यतामिति । वाचकत्वादिरूपेणेति शेषः । एवं हीत्यादि । वाचकाश्रयं व्यञ्जकत्वं वाचकत्वादि. मूल न चेत्पर्वतगतो धूमोऽनग्निजश्च स्यादतो विपर्यासो न युक्त इति भावः । विभागमुपसंहरतीति । वाचकत्वगुणवृत्तिभ्यां विभक्ततया व्यञ्जकत्वस्य प्रतिपा. दितत्वात्प्रकारत्रयमुपपादितमेवेति भावः । व्युदस्यतीति । समुद्रघोषादेरभिधायक. त्वाभावादिति भावः।

 तात्पर्यतोऽवतारयति-नन्वित्यादि । उपजीवत्यपेक्षत इत्युपजीवकमनुसन्निधौ जीवतीत्यनुजीवकम् । वाचकत्वेत्यादि नावाचकत्वगुणवृत्युभयाश्रयत्वमेवांशे दूषणदा- नायानूदितम् । यथोक्तार्थोभयाश्रयत्वहेतुनैवास्य चोद्यस्य परिहृतत्वात्पुनस्तदुद्भावन- परिहारावनर्थकावित्याशङ्क्य परिहरति-यद्यपीत्यादि । अविवक्षितवाच्यस्येति ध्वने. शेष रितिः । यो वैलक्षण्यं दुर्निरूपं पश्यति, तं प्रतीति सम्बन्धः । आशङ्केति । वैल.