पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१४
सटीकलोचनोपेतध्वन्यालोके


सिद्धिः प्रागेव प्रतिपादिता तत्सिध्ध्यधीना च व्यञ्जकसिद्धिरिति कः पर्य- नुयोगावसरः । सत्यमेवैतत् ; प्रागुक्तयुक्तिभिर्वाच्यव्यतिरिक्तस्य वस्तुनः सिद्धिः :: कृता, स त्वर्थो व्यङ्ग्यतयैव कस्माद्व्यपदिश्यते । यत्र च प्राधा.


लोचनम्

स्याभिप्रायः । प्रागेवेति । प्रथमोद्योते अभाववादनिराकरणे । अतश्च न व्यञ्जकसिध्या तत्सिद्धिर्थेनान्योन्याश्रयः शङ्क्येत, अपि तु हेत्वन्तरैस्तस्य साधितत्वादिति भावः । तदाह-तत्सिद्धीति । स त्विति । अस्त्वसौ द्वितीयोऽर्थः, तस्य यदि व्यख्य इति नाम कृतम् , वाच्य इत्यपि कस्मान्न क्रियते ? व्यङ्गय इति वा वाच्यामिमतस्यापि कस्मान्न क्रियते ? अवगम्यमानत्वेन हि शब्दार्थत्वं तदेव वाचकत्वम् अभिधा

बालप्रिया

व्यञ्जकत्वमर्थस्य व्यङ्ग्यत्वं च 'न हि' स्वतो न भवति हि । हीति प्रसिद्धौ । अत इति शेषः । अतः परिशेषादित्यर्थः । व्यङ्ग्यत्वं व्यञ्जकसिद्ध्यधीनं व्यङ्गयापेक्षया व्यञ्जक- त्वसिद्धिश्च । 'इतीति । इत्यतो हेतोरित्यर्थः । अव्यवस्थानं न व्यवस्थितिः । यद्वा- न हीत्यस्य पूर्वेण सम्बन्धः । व्यञ्जकत्वं शब्दस्यैवेति सूचयितुं व्यङ्गयत्वं चार्थस्येत्यु- क्तम् । तथा च यतोऽर्थस्य व्यङ्गयत्वमतो व्यञ्जकत्वं शब्दस्यैव तच्च व्यङ्गयार्थप्रकाशनं न हीति सम्बन्धः । अत्र हेतुमाह-व्यञ्जकत्वेत्यादि। व्यञ्जकत्वसिद्ध्यधीनमित्यस्या नन्तरं व्यङ्गयत्वमिति पाठाभावे त्वेवं योजना-व्यञ्जकत्वं व्यङ्गथार्थप्रकाशनं न हि । कुत इत्यत्राह 'व्यङ्गयत्वमित्यादीति । 'नन्वि'त्यादि सिद्धान्तिनः समाधानग्रन्थः । विस्मरणमाशङ्कय तत्रत्यं प्रागिति पदं व्याचष्टे लोचने-प्रथमेत्यादि । फलितमाह- अतश्चेत्यादि । चकारोऽवधारणे अत इत्यनेन परामृष्टं हेतुमाह-हेत्वन्तरैरिति । तदाहेति । तस्मादाहेत्यर्थः । वृत्तौ-'तसिध्यधीनेति । व्यङ्गयसिध्यधीनेत्यर्थः । 'सत्यमित्यादिना सिद्धान्त्युक्तमनूद्य पूर्वपक्षी ‘स त्वित्यादिना दूषणमभिहितवास्तं ग्रन्थं व्याचष्टे अस्त्वसावित्यादिना । स त्वर्थ इत्यस्य व्याख्यानम्-असौ द्विती. योऽर्थ इति । व्यञ्जयतयैवेत्येवकारं द्विधा योजयनू व्याचष्टे-तस्येत्यादिना । न क्रियत इति । अतश्च नियमार्थं व्यङ्ग्यशब्दप्रवृत्तिनिमित्तं वक्तव्यं, तथाचान्यो न्याश्रय एव पर्यवस्येदिति भावः । यत्र चेत्यादिना व्यङ्गयत्वविशिष्टार्थस्याभिमतस्या- सिद्धिरूपं दूषणान्तरमुच्यते तद्ग्रन्थमवतारयति-अवगम्यमानत्वेनेत्यादिना । अवगम्यमानत्वेन शब्दावगम्यमानत्वेन । शब्दार्थत्वमिति । तथा च शब्दाव- गम्यत्वं वाच्यत्वमित्यर्थः । तदेवेति । यदेवार्थगतावगम्यत्वप्रतियोगि तदेवेत्यर्थः । अर्थावगमकत्वमेवेति यावत् । अस्त्वेवं ततः किमत आह-अभिधा होत्यादि । अभिधा वाचकत्वान्तर्गता वचनलक्षणा । यत्पर्यन्तेति । योऽर्थः पर्यन्तो यस्याः