पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१३
तृतीयोद्द्योतः


रिव वायव्यङ्ग्यप्रतीत्योर्निमित्तनिमित्तिभावान्नियमभावी क्रमः । स तूक्तयुक्त्या क्वचिल्लक्ष्यते क्वचिन्न लक्ष्यते ।

 तदेवं व्यञ्जकमुखेन ध्वनिप्रकारेषु निरूपितेषु कश्चिद्वब्रूयात्- किमिदं व्यञ्जकत्वं नाम व्यङ्गथार्थप्रकाशनम् , न हि व्यञ्जकत्वं व्यङ्गयत्वं चार्थस्य व्यञ्जकसिध्यधीनं व्यङ्गयत्वम् , व्यङ्गयापेक्षया च व्यञ्जकत्वसिद्धि. रित्यन्योन्यसंश्रयादव्यवस्थानम् । ननु वाच्यव्यतिरिक्तस्य व्यङ्ग्यस्य


लोचनम्

शब्दरूपस्य पूर्व प्रतीतिस्ततोऽभिधेयस्य । यदाह तत्र भवान्-

'विषयत्वमनापन्नैः शब्दैर्नार्थः प्रकाश्यते' इत्यादि ।

 अतोऽनिर्ज्ञातरूपत्वात्किमाहेत्यभिधीयते' इत्यत्रापि चाविनाभाववत्समयस्याभ्य- स्तत्वात्क्रमो न लक्ष्येतापि ।

 उद्योतारम्भे यदुक्तं व्यञ्जनमुखेन ध्वनेः स्वरूपं प्रतिपाद्यत इति तदिदानीमुपसंह- रन्व्यञ्जकभावं प्रथमोद्योते समर्थितमपि शिष्याणामेकप्रघट्टकेन हृदि निवेशयितुं पूर्वपक्ष- माह-तदेवमिति । कश्चिदिति । मीमांसकादिः । किमिदमिति। वक्ष्यमाणश्चोदक-

बालप्रिया

भिधानाभिधेयप्रतीतिवदिति वृत्त्युक्तानुमाने दृष्टान्तस्य साधनवैकल्यशङ्कां परिहर्तुं व्याचष्टे-मभिधानस्येत्यादि । यदाहेति । यस्मादाहेत्यर्थः । विषयत्वमित्यादि । विषयत्वं श्रावणादिज्ञानविषयत्वम् । अनापन्नैः अज्ञातैरित्यर्थः । न प्रकाश्यते किन्तु ज्ञातेरेवेत्यर्थः । इत्यादीत्यादिपदेन सूचितेषु किञ्चित् पद्यार्द्धमपि दर्शयति-अत इत्यादि । अत इति । यतो निर्ज्ञातस्यैवार्थबोधकत्वं तत इत्यर्थः । अनिर्मातरूपत्वा- दिति । श्रोत्रा सम्यगश्रवणे शब्दस्यानिश्चितस्वरूपत्वादित्यर्थः । किमाहेत्यभिधी- यत इति । भवान् किं वक्तीति पृच्छयते इत्यर्थः । शब्दस्य तदर्थस्य च जिज्ञासयेति भावः । प्रसङ्गादाह-अत्रापीत्यादि । अत्रापि अभिधानाभिधेयप्रतीत्योरपि । अ.. विनाभाववदविनाभावस्येव । समयस्य तत्तदर्थे तत्तत्पदस ङ्केतस्य । न लक्ष्येतापि क्वचिदलक्ष्योऽपि भवति ।

 'तदेव मित्यादि निरूपितेष्वि'त्यन्तमनुपयोगि, कश्चिदित्यादिना व्यञ्जकत्वनिरूपणं पुनरुक्तं चेत्यतस्तत्फलं दर्शयन्नवतारयति-उद्योतारम्भ इत्यादिना। प्रघट्टकेन प्रकरणेन । किमिदमित्यत्र किंशब्दः आक्षेपे प्रश्ने वा, तत्र हेतुनोक्त इत्यत आह- वक्ष्यमाण इति । अन्योन्याश्रयादव्यवस्थानमिति वक्ष्यमाण इत्यर्थः । चोदकस्य चोद्यवादिनः । वृत्तौ 'व्यङ्गयाथप्रकाशन मिति । व्यंग्यार्थप्रतीत्यनुकूलसामर्थ्यमित्यर्थः । अस्यानन्तरं चेदिति शेषः । निषेधति-'न ही'त्यादि । शब्दस्येति शेषः । शब्दस्य