पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१२
सटीकलोचनोपेतध्वन्यालोके


तमेव पौर्वापर्यम् । आर्थ्यपि च प्रतिपत्तिस्तथाविधे विषये उभयार्थस- म्बन्धयोग्य शब्दसामर्थ्यप्रसावितेति शब्दशक्तिमूला कल्प्यते । अविव. क्षितवाच्यस्य तु ध्वनेः प्रसिद्धस्वविषयवैमुख्यप्रतीतिपूर्वकमेवार्थान्तरप्रका. शनमिति नियमभावी क्रमः । तत्राविवक्षितवाच्यत्वादेव वाच्येन सह व्यङ्गस्य क्रमप्रतीतिविचारो न कृतः । तस्मादभिधानाभिधेयप्रतीत्यो-


लोचनम्

स्तत्राप्यलक्ष्यक्रमैवेति दर्शयति । नन्वेवमार्थत्वं शब्दशक्तिमूलत्वं चेति विरुद्धमित्या. शङ्कयाह-आर्थ्यंपीति । नात्र विरोधः कश्चिदिति भावः । एतच्च वितत्य पूर्वमेव निर्णीतमिति न पुनरुच्यते। स्वविषयेति । अन्धशब्दादेरुपहतचक्षुष्कादिः स्वो विषयः, तत्र यद्वैमुख्यमनादर इत्यर्थः। विचारो न कृत इति । नामधेयनिरूपण- द्वारेणेति शेषः । सहभावस्य शङ्कितुमत्रायुक्तत्वादिति भावः । एवं रसादयः कैशिक्या- दीनामितिवृत्तभागरूपाणां वृत्तीनां जीवितमुपनागरिकाद्यानां च सर्वस्यास्योभयस्यापि वृत्तिव्यवहारस्य रसादिनियन्त्रितविषयत्वादिति यत्प्रस्तुतं तत्प्रसङ्गेन रसादीनां वाच्या तिरिक्तत्वं समर्थयितुं क्रमो विचारित इत्येतदुपसंहरति-तस्मादिति । अभिधानस्य

बालप्रिया

त्यर्थः । रसप्रतीतिरिति । रसस्य भावस्य वा प्रतीतिरित्यर्थः । तत्रापीति । उक्त- शब्दशक्तिमूलस्थलेऽपीत्यर्थः । प्रातुमित्यादौ निवेदो व्यङ्गयः। नात्रेत्यादि । उभयार्थे- त्यादिविशेषणस्य विद्यमानत्वान्न विरोध इत्यर्थः । एवं विवक्षितान्यपरवाच्ये व्यङ्गयः। व्यञ्जकयोः क्रमं प्रतिपाद्य सर्वत्रापि व्यङ्गयव्यञ्जकयोः क्रमोऽस्तीति दर्शयितुमाह- वृत्तौ ‘अविवक्षितेत्यादि । 'निःश्वासान्ध' इत्यादिपूर्वोक्तोदाहरणनिष्ठतया स्वविषयवैमु- ख्यमित्येतद्वयाचष्टे-अन्धशब्दादेरित्यादि । विषयः वाच्यार्थः। अनादर इति। वाच्यार्थस्य बाधितत्वात्परित्याग इत्यर्थः । वृत्तौ ‘अर्थान्तरे ति । व्यङ्गयेत्यर्थः । 'क्रम' इति । वाच्यव्यङ्ग्यप्रतीत्योरिति शेषः । 'तत्राविवक्षितवाच्यत्वादिति । अविवक्षितवा. च्यध्वनिस्थले वाच्यस्याविवक्षितत्वादित्यर्थः । 'क्रमेति । क्रमेण या प्रतीतिः तद्विचारः वाच्यार्थव्यङ्गथार्थप्रतीत्योः क्रमस्य विचार इत्यर्थः । न कृत इत्यत्र पूरयति लोचने- नामेत्यादि । भावमाह-सहेत्यादि । अत्रेति । अपिवक्षितवाच्यध्वनावित्यर्थः । ननु रसादेः वृत्तिजीवितत्वमुपक्रान्तं वाच्यव्यङ्ग्य प्रतीतिक्रमश्च तस्मादित्यादिना उपसंहृतः । तदिदमसङ्गतमित्यतस्तद्ग्रन्थमवतारयति-एवं रसादय इत्यादि । उपनागरिका- द्यानां च वृत्तीनामिति सम्बन्धः । रसादीनामुभयविधवृत्तिजीवितत्वे हेतुमाह-सर्व स्येत्यादिना । प्रस्तुतमुपकान्तं तत्प्रसङ्गेन विचारित इत्यन्वयः । इत्येतदिति । प्रसङ्गागतं क्रमविचारमित्यर्थः । वाच्यव्यङ्गयप्रतीती क्रमवत्यौ निमित्तनैमित्तिकत्वाद- -