पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४११
तृतीयोद्द्योतः


 इत्यादावर्थद्वयप्रतीतौ शाब्द्यामर्थद्वयस्योपमानोपमेयभावप्रतीतिरुप. मावाचकपदविरहे सत्यर्थसामर्थ्यादाक्षिप्तेति, तत्रापि सुलक्षमभिधेयव्यङ्गया. लङ्कारप्रतीत्योः पौर्वापर्यम् ।

 पदप्रकाशशब्दशक्तिमूलानुरणनरूपव्यङ्गयेऽपि ध्वनौ विशेषणपद- स्योभयार्थसम्बन्धयोग्यस्य योजकं पदमन्तरेण योजनमशाब्दमप्यर्थादव- स्थितमित्यत्रापि पूर्ववदभिधेयतसामर्थ्यांक्षिप्तालङ्कारमात्रप्रतीत्योः सुस्थि-


लोचनम्

स्विति । 'भम धम्मिअ' इत्यादिकासु । ताश्च तत्रैव व्याख्याताः । शाब्द्यामिति । शाब्द्यामपीत्यर्थः । उपमावाचकं यथेवादि । अर्थसामर्थ्यादिति । वाक्यार्थसाम- र्थ्यादिति यावत् ।

 एवं वाक्यप्रकाशशब्दशक्तिमूलं विचार्य पदप्रकाशं विचारयति-पदप्रकाशेति । विशेषणपदस्येति । जड इत्यस्य । योजकमिति । कूप इति च अहमिति चोभ- यसमानाधिकरणतया संवलनम् । अभिधेयं च तत्सामर्थ्याक्षिप्तं च तयोरलङ्कारमात्रयोः। ये प्रतीती तयोः पौर्वापर्य क्रमः। सुस्थितं सुलक्षितमित्यर्थः। मात्र ग्रहणेन रसप्रतीति.

बालप्रिया

येन पौर्वापर्यस्यास्फुटत्वं भवेदिति भावः । शाब्द्यामपीति । अभिधया शब्दजन्या- मपीत्यर्थः । अपिशब्देनाप्रकृतार्थस्य व्यङ्गयत्वपक्षः सूच्यते । उपमावाचकपदविरह इत्यत्रोपमावाचकपदं विवृणोति-उपमेत्यादि । वृत्तौ 'आक्षिप्ते'ति । उत्पादिते. त्यर्थः। 'अभिधेयेति । अभिधेयस्य व्यङ्गयालङ्कारस्य च ये प्रतीती तयोरित्यर्थः । द्वितीयार्थोऽप्यभिधेयः तदुपमामात्रं व्यङ्गयमिति मताभिप्रायेणेदम् , अनुपदं वक्ष्यमाण- स्थलेऽप्येवं बोध्यम् ।

 लोचने वृत्तानुवादपूर्वकमवतारयति--एवमित्यादि । पदप्रकाशमिति । शब्दशक्तिमूलमित्यनुषङ्गः । प्रातुं धनैरित्यायुक्तमुदाहरणं मनसिकृत्य व्याचष्टे-- जड इत्यस्येति । योजनशब्दार्थमाह-कूप इत्यादि । इति चोभयेति । कूपा. हम्पदार्थोभयेत्यर्थः । संवलनं सम्मिश्रणम् । वृत्तौ 'अशाब्दमपीति । योजक- शब्दाप्रतिपाद्यमपीत्यर्थः । अर्थाद्वयञ्जनात् । 'अवस्थितम्' प्रतिपत्तिविषयभूतम् । अभिधेयेत्यादिकं व्याचष्टे-अभिधेयमित्यादि। अत्राभिधेयोऽलङ्कारो दीपकम् , जडत्व- स्योभयत्रान्वयात् । तत्सामर्थ्याक्षिप्ता चोपमा । अभिधेयं च तत्सामर्थ्याक्षिप्तालङ्कारश्च तावेव तन्मात्रे इति च वृत्त्यर्थो बोध्यः । अलक्षणीयत्वशङ्काया व्यावर्तनीयतया तदनु- रोधेन ब्याचष्टे-सुलक्षितमिति । मात्रग्रहणेनेति । अलङ्कारमात्रेत्यत्रत्यमात्रपदेने.