पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४१०
सटीकलोचनोपेतध्वन्यालोके


 क्वचित्तु लक्ष्यत एव । यथानुरणनरूपव्यङ्गयप्रतीतिषु । तत्रापि कथमिति चेदुच्यते--अर्थशक्तिमूलानुरणनरूपव्यङ्गये ध्वनौ तावदभिधे. यस्य तत्सामर्थ्याक्षिप्तस्य चार्थस्याभिधेयान्तरविलक्षणतयात्यन्तविलक्षणे ये प्रतीती तयोरशक्यनिह्ववो निमित्तनिमित्तिभाव इति स्फुटमेव तत्र पौर्वा- पर्यम् । यथा प्रथमोद्द्योते प्रतीयमानार्थसिद्ध्यर्थमुदाहृतासु गाथासु । तथाविधे च विषये वाच्यव्यङ्गययोरत्यन्तविलक्षणत्वाद्यैव एकस्य प्रती- तिः सैवेतरस्येति न शक्यते वक्तुम् । शब्दशक्तिमूलानुरणनरूपव्यङ्ग्ये तु ध्वनौ-

गावो वः पावनानां परमपरिमिता प्रीतिमुत्पादयन्तु


लोचनम्

दिप्रतीत्यन्तरानुप्रवेशविरहादाशुभाविन्यामग्निप्रतीतौ क्रमो न लक्ष्यते तद्वदिहापि । यदि तु वाच्याविरोधी रसो न स्यादुचिता च घटना न भवेत्तल्लक्ष्येतैव क्रम इति ।

 चन्द्रिकाकारस्तु पठितमनुपठतीति न्यायेन गजनिमीलिकया व्याचचक्षे-तस्य शब्दस्य फलं तद्वा फलं वाच्यव्यङ्ग्यप्रतीत्यात्मकं तस्य घटना निष्पादना यतोऽन. न्यसाध्या शब्दव्यापारै कजन्येति । न चात्रार्थसतत्त्वं व्याख्याने किञ्चिदुत्पश्माम इत्यलं पूर्ववंश्यैः सह विवादेन बहुना ।

 यत्र तु सङ्घटनाव्यङ्गयत्वं नास्ति तत्र लक्ष्यत एवेत्याह-क्वचित्विति । तुल्ये व्यङ्ग्यत्वे कुतो भेद इत्याशङ्कते-तत्रापीति । स्फुटमेवेति ।

अविवक्षितवाच्यस्य पदवाक्यप्रकाशता ।
तदन्यस्यानुरणनरूपव्ययस्य च ध्वनेः ॥

 इति हि पूर्व वर्णसङ्घटनादिकं नास्य व्यञ्जकत्वेनोक्तमिति भावः। गाथा-

बालप्रिया

नरूपं तस्य योऽनुप्रवेशः तस्य विरहादभावादित्यर्थः । आशुभाविन्यां झटिति भवन्त्याम् । अग्निप्रतीतौ पर्वतादौ वह्नेरनुमितौ । क्रम इति । व्याप्तिस्मृति सहकृतस्य धूमज्ञानस्येति शेषः । उपसंहरति-तद्वदिति । अभ्यासनिमित्तकाशुभावित्वेन साम्यं बोध्यम् । वाच्याविरोधितेत्यायुवत्या गम्यमर्थमाह-यदीत्यादि ।

 अनन्येत्यादिग्रन्थस्य चन्द्रिकाव्याख्यानमाह-तस्येत्यादि । अर्थसतत्वमिति । अर्थस्य सङ्गतत्वमित्यर्थः। स्फुटमेव पौर्वापर्यमित्येतदुपपादयति-अविवक्षिते. त्यादि । इति हि पूर्वमुक्तं वर्णसङ्घटनादिक्रमस्य व्यञ्जकत्वेन नोक्तमिति सम्बन्धः ।