पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०९
तृतीयोद्द्योतः


लोचनम्

यन्ति तदास्वादं विदधतीत्यर्थः । एतदुक्तं भवति–सङ्घटनाव्यङ्गयत्वाद्रसादीनामनुप- युक्तेऽप्यर्थविज्ञाने पूर्वमेवोचितसङ्घटनाश्रवण एव यत आसूत्रितो रसास्वादस्तेन वाच्य- प्रतीत्युत्तरकालभवेन परिस्फुटास्वादयुक्तोऽपि पश्चादुत्पन्नत्वेन न भाति । अभ्यस्ते हि विषयेऽविनाभावप्रतीतिक्रम इत्थमेव न लक्ष्यते। अभ्यासो ह्ययमेव यत्पणिधानादि- नापि विनैव संस्कारस्य बलवत्त्वात्सदैव प्रबुभुत्सुतया अवस्थापनमित्येवं यत्र धूमस्त- त्रानिरिति हृदय स्थितत्वाद्वयाप्तेः पक्षधर्मज्ञानमात्रमेवोपयोगि भवतीति परामर्शस्थान- माक्रमति, झटित्युत्पन्ने हि धूमज्ञाने तद्वयाप्तिस्मृत्युपकृते तद्विजातीयप्रणिधानानुसरणा-

बालप्रिया

घटना इत्यर्थः । रसादीनित्यादेर्विवरणम्-तदास्वादमित्यादि । तत्त्वित्यादिग्रन्थेन लब्धं क्रमस्तु किन्न लक्ष्यत इति चोद्यस्योत्तरं विवृणोति-एतदित्यादि । सङ्घटना- व्यङ्गयत्वादिति। अर्थज्ञानोपयोग विनाऽपि सङ्घटनया व्यङ्गयत्वादित्यर्थः । पूर्वमेव वाच्यार्थज्ञानात्प्रागेव । उचितेति । अभ्यस्तेत्यर्थः । आसूत्रितः ईषत्स्फुरितः। तेने- त्यस्य न भातीत्यनेनान्वयः । वाच्येति । वाच्यप्रतीत्युत्तरकाले यो भवः जननं तेन हेतुना यः परिस्फुटास्वादः तेन युक्तोऽपि विशिष्टोऽपि ; परिस्फुटास्वादः युक्तोऽपीति च पाठः। पश्चादुत्पन्नत्वेन वाच्यप्रतीत्युत्तरकालोत्पन्नत्वेन । न भातीति। सहृदयाना- मिति शेषः। सदृष्टान्तमुक्तमेव विवृणोति-अभ्यस्त इत्यादि । अभ्यस्ते व्याप्तिमत्त्वेन पुनः पुनर्ज्ञाते । अविनेति । अविनाभावो व्याप्तिस्तस्य प्रतीतिस्तस्याः क्रमः अनुमि. ताविति शेषः । अभ्यास इत्यादि । “अभ्यासस्तु समाने विषये ज्ञानानामभ्यावृत्तिरि" ति न्यायभाष्ये । प्रणिधानेत्यादि । “सुस्मूर्षया मनसो धारणं प्रणिधान मिति न्याय- भाष्यम् । धारणमेकाग्रीकरणम् । प्रणिधानादिनेत्यादिपदेन "प्रणिधाननिबन्धाभ्यासलि. ङ्गेत्यादिन्यायसूत्रोक्तलिङ्गादीनां ग्रहणम् । विनैवेत्यस्य प्रबुभुत्सुतया स्थापनमित्यनेन सम्बन्धः । बलवत्वादिति । झटित्युद्बोधकसमवधान रूपदाढयवत्वादित्यर्थः । प्रबु. भुत्सुतयेति । स्मृतिरूपप्रबोधोपधायकत्वेनेत्यर्थः । कूलं पिपतिषतीत्यादिवत् प्रयोगः। अभ्यस्त इत्यादिना सामान्यत उक्तं विशिष्य दर्शयति-एवमित्यादि । इत्येवं व्याप्तेरित्यन्वयः। हृदयस्थितत्वादिति । संस्काररूपेणान्तः करणे वर्तमानत्वादि- त्यर्थः । पक्षेति धूमादिलिङ्गस्य पर्वतादिपक्षवृत्तित्वज्ञानमात्रमित्यर्थः । मात्रमेवेत्यनेन पक्षे साध्यव्याप्तिविशिष्टहेतुमत्ताज्ञानरूपस्य परामर्शस्य व्यवच्छेदः । उपयोगी ति । वह्न्याद्यनुमिताविति शेषः । इतीति हेतौ । परामर्शति । परामर्शस्थानीयं भवती- त्यर्थः । यद्वा-आक्रमतीति सप्तम्यन्तं धूमज्ञाने इत्यस्य विशेषणम् । वेदान्तपरिभाषादौ स्पष्टमिदं मतम् । झटितीत्यस्य व्याप्तिस्मृतीत्यनेन सम्बन्धः । तद्याप्तीति । धूमादौ वह्न्यादिव्याप्तेः स्मृत्या सहकृते सतीत्यर्थः । तदित्यादि । ताभ्यां धूमज्ञानव्याप्तिस्मृ. तिभ्यां विजातीयं यत् प्रणिधानानुसरणादिना प्रणिधान करणादिना प्रतीत्यन्तरमालोच.

 ५२ ध्व०