पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०८
सटीकलोचनोपेतध्वन्यालोके


क्रमः । तत्तु शब्दस्य क्रियापौर्वापर्यमनन्यसाध्यतत्फलघटनास्वाशुभावि- नीषु वाच्येनाविरोधिन्यभिधेयान्तरविलक्षणे रसादौ न प्रतीयते ।


लोचनम्

र्थयिष्याम इति भावः । ननु संश्चेत्क्रमः किं न लक्ष्यत इत्याशङ्कयाह-तत्त्विति । क्रियापौर्वापर्यमित्यनेन क्रमस्य स्वरूपमाह-क्रियते इति । क्रिये वाच्यव्यङ्गयप्रतीती यदि वाभिधाव्यापारी व्यञ्जनापरपर्यायो ध्वननव्यापारश्चेति क्रिये तयोः पौर्वापर्य न प्रतीयते । क्वेत्याह-रसादौ विषये। कीदृशि ? अभिधेयान्तरात्तदभिधेयविशे- षाद्विलक्षणे सर्वथैवानभिधेये अनेन भवितव्यं तावत्क्रमेणेत्युक्तम् । तथा वाच्येनाविरो. धिनि, विरोधिनि तु लक्ष्यत एवेत्यर्थः । कुतो न लक्ष्यते इति निमित्तसप्तमीनिर्दिष्टं हेत्वन्तरगर्भ हेतुमाह-आशुभाविनीष्विति । अनन्यसाध्यतत्फलघटनासु घटनाः पूर्वं माधुर्यादिलक्षणाः प्रतिपादिता गुणनिरूपणावसरे ताश्च तत्फलाः रसादिप्रतीतिः फलं यासाम् , तथा अनन्यत्तदेव साध्यं यासाम्, न ह्योजोघटनायाः करुणादिप्रतीतिः साध्या।

 एतदुक्तं भवति-यतो गुणवति काव्येऽसङ्कीर्णविषयतया सङ्घटना प्रयुक्ता ततः क्रमो न लक्ष्यते । ननु भवत्वेवं सङ्घटनानां स्थितिः, क्रमस्तु किं न लक्ष्यते अत आह-आशुभाविनीषु वाच्यप्रतीतिकालप्रतीक्षणेन विनैव झटित्येव ता रसादीन् भाव-

बालप्रिया

शब्दजन्यक्रियेत्यर्थः। क्रियापदार्थमाह-क्रियेते इत्यादि । ते के इत्यत्राह- वाच्येति । शब्दस्य क्रियेत्यस्य शब्दनिष्ठक्रियेत्यभिप्रायेणाह-यदिवेत्यादि । अन्वय दर्शयति-तयोरित्यादि । तयोः क्रिययोः । अत्र वाच्यव्यङ्गयप्रतीतिगतं पौर्वापर्यं तयापारयोरारोपितं बोध्यम् । रसादौ विषये इति । तथाच वाच्यप्रतीतेः रसादि- रूपव्यङ्गयप्रतीतेश्चेत्यर्थः । अभिधेयविशेषादिति । तत्तद्वाच्यार्थविशेषादित्यर्थः । फलितमाह-सर्वथेत्यादि। अनभिधेये अभिधेयभिन्ने। अनेनेति । अनभिधेय- त्वकथनेनेत्यर्थः । इत्युक्तमिति । इति दर्शितमित्यर्थः । लक्ष्यत एवेति । यथा "भ्रम धार्मिकेत्यादौ । इतीति । इत्याकाङ्क्षायामित्यर्थः । निमित्तसप्तमीति । “यस्य च भावेनेति सूत्रानुशिष्टनिमित्तार्थकसप्तमीत्यर्थः । हेत्वन्तरेति । अनन्यसा- ध्यतत्फलत्वरूपहेत्वन्तरेत्यर्थः । अनन्येत्यादिकं व्याचष्टे-घटना इत्यादि। कर्मधा- रयाभिप्रायेण विग्रहमाह-ताश्चेत्यादि । अनन्यदित्यस्य व्याख्यानम्-तदेवेति । तत्तद्धटनया यत्साध्यं तदेवेत्यर्थः । उक्तमेव विवृणोति-न ह्रीत्यादि। ओजोघटन. या करुणादिप्रतीतिर्न हि साध्येत्यन्वयः । किन्तु वीरादिप्रतीतिरेवेति भावः ।

 उक्तस्य भावमाह-एतदित्यादि । असङ्कीर्ण विषयतयेति । घटनान्तरास- ङ्कीर्ण स्वविषयकत्वेनेत्यर्थः । आशुभाविनीष्वित्येतद्वयाचष्टे-वाच्येत्यादि । ता इति ।