पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०७
तृतीयोद्द्योतः


काव्यमानश्रवणादेवासौ भवेत् । सहभावे च वाच्यप्रतीतेरनुपयोगः, उप. योगे वा न सहभावः । येषामपि स्वरूपविशेषप्रतीतिनिमित्तं व्यञ्जकत्वं यथा गीतादिशब्दाना तेषामपि स्वरूपप्रतीतेर्य॑ङ्गयप्रतीतेश्च नियमभावी


लोचनम्

वेदने रसोदयः । स्वयमिति । प्रकरणमात्रमेव परेण केनचिद्येषां व्याख्यातमिति भावः । न चान्वयव्यतिरेकवती वाच्यप्रतीतिमप त्यादृष्टसद्भावाभावौ शरणत्वेनाश्रितो मात्सर्यादधिकं किञ्चित्पुष्णीत इत्यभिप्रायः ।

 नन्वस्तु वाच्यप्रतीतेरुपयोगः क्रमाश्रयेण किं प्रयोजनम् , सहभावमात्रमेव ह्युप- योग एकसामग्रयधीनतालक्षणमित्याशङ्कयाह-सहेति । एवं ह्युपयोग इति अनुपका- रके सञ्ज्ञाकरणमात्रं वस्तुशून्यं स्यादिति भावः। उपकारिणो हि पूर्वभावितेति त्वया प्यङ्गीकृतमित्याह-येषामिति । तदृष्टान्तेनैव वयं वाच्यप्रतीतेरपि पूर्वभावितां सम.

बालप्रिया

न्तरमित्यर्थः । प्रकृतवाक्यस्येति शेषः । अथेति प्रश्ने । वाक्यान्तराणामित्यादि। वाक्यान्तरतद्वाच्यमित्यर्थः । उभयेति । वाक्यान्तरतद्वाच्योभयेत्यर्थः। प्रकृतवा- क्यार्थावेदन इति । प्रकृतवाक्यघटकतत्तत्पदार्थानवगम इत्यर्थः । वाच्यवाचकभा- वाव्युत्पत्तिमुपपादयति-प्रकरणमात्रमित्यादि । मात्रशब्देन वाच्यस्य व्यवच्छेदः । येषामिति । केषाञ्चित् प्रतिपत्तॄणामित्यर्थः । व्याख्यातमिति । बोधितमित्यर्थः । ननु वाक्येन रसादिप्रतीतौ कर्तव्यायामदृष्टविशेषोऽपि सहकारी तदभावादेव वाच्यप्र- तीतिविरहकाले रसादेरप्रतीतिरिति शङ्को परिहरति-न चेत्यादि । न च पुष्णित इति सम्बन्धः । अन्वयेति । वाच्यप्रतीतिसत्त्वे रसादिप्रतीतिस्तदभावे तदभाव इत्यन्वय. व्यतिरेकशालिनीमित्यर्थः । शरणत्वेनेति । प्रयोजकत्वेनेत्यर्थः । रसप्रतीतितदभाव- योरिति शेषः।

 नन्वित्यादि । उपयोग इति । रसादिप्रतीति प्रतीति शेषः। कमाश्रयेणेति । वाच्यप्रतीतिरसादिप्रतीत्योः पौर्वापर्यंरूपक्रमाश्रयेणेत्यर्थः। तर्हि उपयोगः क इत्यत्राह- सहेति । तत् कीदृशमित्याङ्कयाह-एकेति । वाच्यप्रतीतेः रसादिप्रत्यायकसामग्र्यधीन- त्वरूपो रसादिसहभाव इति भावः। उपयागः उपयोगपदार्थः । आशङ्कयेति । आपाततश्शङ्कित्वेत्यर्थः । सहभावे चेत्यादिग्रन्थस्य भावमाह-एवं हीत्यादि । अनु- पकारके उपयोग इति सञ्ज्ञाकरणमात्रमिति सम्बन्धः। मात्रपदार्थ विवृणोति-वस्त्वि- त्यादि । वस्तु उपकारकत्वरूपस्तदर्थः । पूर्वभावितेति । पूर्वकालवृत्तित्वमित्यर्थः । क्रम इत्यन्तग्रन्थस्य भावमाह-त्वदृष्टान्तेनेत्यादि । त्वदृष्टान्तेन गीतादिना तत्त्वित्यादिग्रन्थमवतारयति-नन्वित्यादि । शब्दस्येत्यस्य क्रियेत्यनेन सम्बन्धः ।