पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०६
सटीकलोचनोपेतध्वन्यालोके


तन्निबन्धनं तन्नियमेनैव वाच्यवाचकभावप्रतीत्युत्तरकालत्वं व्यङ्गयप्रतीतेः प्राप्तमेव ।

 स तु क्रमो यदि लाघवान्न लक्ष्यते तत्किं क्रियते । यदि च वाच्य. प्रतीतिमन्तरेणैव प्रकरणाद्यवच्छिन्नशब्दमात्रसाध्या रसादिप्रतीतिः स्या- त्तदनवधारितप्रकरणानां वाच्यवाचकभावे च स्वयमव्युत्पन्नानां प्रतिपत्तॄणां


लोचनम्

वाच्यवाचकभावेति । सैव वाचकशक्तिरित्युच्यते ।

 एतदुक्तं भवति-मा भूद्वाच्यं रसादिव्यञ्जकम् ; अस्तु शब्दादेव तत्प्रतीतिस्त- थापि तेन स्ववाचकशक्तिस्तस्यां कर्तव्यायां सहकारितयावश्यापेक्षणीयेत्यायातं वाच्य- प्रतीतेः पूर्वभावित्वमिति । ननु गीतशब्दवदेव वाचकशक्तिरत्राप्यनुपयोगिनी, यत्तु क्वचिच्छ्रुतेऽपि काव्ये रसप्रतीतिर्न भवति तत्रोचितः प्रकरणावगमादिः' सहकारी नास्ती. त्याशङ्कयाह-यदि चेति । प्रकरणावगमो हि क उच्यते ? किं वाक्यान्तरसहायत्वम् ? अथ वाक्यान्तराणां सम्बन्धिवाच्यम् । उभयपरिज्ञानेऽपि न भवति प्रकृतवाक्यार्था-

बालप्रिया

वाच्यार्थप्रतीतिः प्राग्भवतीत्यभ्युपगन्तव्यमित्यर्थः । वृत्तौ 'अथेति यदीत्यर्थे । 'तन्नि- बन्धन मिति। सा निबन्धनं यस्य तदित्यर्थः । व्यञ्जकत्वमित्यनुषङ्गः। 'तदिति । तर्ही. त्यर्थः। 'स तु क्रम' इति । वाच्यप्रतीत्युत्तरकोलत्वरूपः क्रमस्त्वित्यर्थः । व्यङ्गयप्रतीते- रित्यनुषङ्गः । तन्निबन्धनमित्यत्र तत्पदं व्याचष्टे लोचने-वाचकशक्तिरिति । सैवे. ति । स एवेति च पाठः । वाच्यवाचकभाव एवेत्यर्थः ।

 भावार्थमाह-एतदित्यादि । रसादिव्यञ्जकमिति । रसादिव्यक्तिजनक: मित्यर्थः । तत्प्रतीतिरिति । रसादिप्रतीतिरित्यर्थः । तेनेति । शब्देनेत्यर्थः । तस्यां कर्तव्यायामिति । रसादिप्रतीतावुत्पादयितव्यायामित्यर्थः । इतीति हेतौ । नन्वि- त्यादि । गीतशब्दवदिति । गीतशब्दे इवेत्यर्थः । अत्रापि काव्यशब्देऽपि । नन्वेवं यत्र शब्दः श्रुतोऽर्थो नाधिगतश्च तत्र रसप्रतीतिः स्यादित्यत आह- यत्त्वित्यादि । यत्तु यत्र । इत्याशङ्कयाहेति । इति शङ्कापूर्वकं समाधानं भवेदित्य- न्तग्रन्थेनाहेत्यर्थः। वृत्तौ शब्दमात्रसाध्येत्यत्रत्य मात्रपदार्थविवरणम्-'वाच्यप्रती. तिमन्तरेणैवेति । 'तदवधारितेति । तत्तर्हि । अवधारितं ज्ञातं प्रकरणं यैस्तेषाम् । 'वाच्येत्यादि । तत्तद्वाचकशब्दस्य तत्तद्वाच्यार्थं स्वयमजानतामित्यर्थः । 'असो' रसादिप्रतीतिः। लोचने विवृणोति-प्रकरणेत्यादि । प्रकरणावगमः अवगम्यः प्रकरणपदार्थः । वाक्येति । वाक्यान्तरं सहायः सहकारि यस्य तत्त्वं सहकारि वा ।