पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४८४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०५
तृतीयोद्द्योतः


ननु शब्द् एव प्रकरणाद्यवच्छिन्नो वाच्यव्यङ्गययोः सममेव प्रती- तिमुपजनयतीति किं तत्र क्रमकल्पनया । न हि शब्दस्य वाच्यप्रतीति. परामर्श एव व्यञ्जकत्वे निबन्धनम् । तथा हि गीतादिशब्देभ्योऽपि रसा- भिव्यक्तिरस्ति । न च तेषामन्तरा वाच्यपरामर्शः । अत्रापि ब्रूमः- प्रकरणाद्यवच्छेदेन व्यञ्जकत्वं शब्दानामित्यनुमतमेवैतदस्माकम् । किंतु तद्व्यञ्जकत्वं तेषां कदाचित्स्वरूपविशेषनिबन्धनं कदाचिद्वाचकशक्तिनि- बन्धनम् । तत्र येषां वाचकशक्तिनिबन्धनं तेषां यदि वाच्यप्रतीतिमन्त- रेणैव स्वरूपप्रतीत्या निष्पन्नं तद्भवेन्न तर्हि वाचकशक्तिनिवन्धनम् । अथ


लोचनम्

पदविरहितस्वरालापगीतादौ शब्दमानोपयोगकृतस्य दर्शनात् । ततश्चैकयैव सामग्ऱ्या सहैव वाच्यं व्यङ्ग्याभिमतं च रसादि भातीति वचनव्यञ्जनव्यापारद्वयेन न किञ्चिदिति तदाह-नन्विति । यत्रापि गीतशब्दानामर्थोऽस्ति तत्रापि तत्प्रतीतिरनुपयोगिनी ग्रामरागानुसारेणापहस्तितवाच्यानुसारतया रसोदयदर्शनात् । न चापि सा सर्वत्र भवन्ती दृश्यते, तदेतदाह-न चेति । तेषामिति गीतादिशब्दानाम् । आदिशब्देन वाद्यविलपितशब्दादयो निर्दिष्टाः । अनुमतमिति । 'यत्रार्थः शब्दो वा' इति ह्यवोचामेति भावः । न तर्हीति । ततश्च गीतवदेवार्थावगमं विनैव रसावभासः स्या- त्काव्यशब्देभ्यः, न चैवमिति वाचकशक्तिरपि तत्रापेक्षणीया ; सा च वाच्यनिष्ठैवेति प्राग्वाच्ये प्रतिपत्तिरित्युपगन्तव्यम् । तदाह-अथेति । तदिति वाचकशक्तिः ।

बालप्रिया

दनम् । तदाहेति । उक्तामाशङ्कां 'नन्वित्यादिना 'परामर्श' इत्यन्तेन प्रदर्शयतीत्यर्थः । 'न चेत्यादिग्रन्थमवतारयति-यत्रापीत्यादि । 'अनुपयोगिनीत्यत्र हेतुमाह-ग्रामे. त्यादि । अपेति । अपहस्तितः अनादृतः वाच्यानुसारः वाच्यार्थप्रतीत्यनुसरणं येन रसोदयेन तस्य भावस्तत्ता तया । सेति। वाच्यप्रतीतिरित्यर्थः । 'गीतादीना'मित्यत्रा- दिपदार्थमाह-आदीत्यादि । विलपितं विलाप: “विलापोऽनर्थकं वच' इत्यमरः । वृत्तौ 'तद्वयञ्जकत्वमिति । प्रकरणादिसहकृतं व्यञ्जकत्वमित्यर्थः । तेषां शब्दानाम् । 'स्वरूपविशेषेति । शब्दस्वरूपविशेषेत्यर्थः । 'वाचके ति। वाचकशक्तिरभिधा सैव नि. बन्धनं प्रयोजकं यस्य तत् । व्यक्तैरभिधेयार्थप्रतीतिपूर्वकत्वादिति भावः । 'येषामिति । तद्वयञ्जकत्वमित्यनुषङ्गः । 'तदिति व्यञ्जकत्वमित्यर्थः। 'न तर्हीति। तदित्यस्यानुषङ्गः। लोचने न तर्हीत्यादेर्भावं दर्शयन्नुत्तरग्रन्थमवतारयति-ततश्चेत्यादि । ततश्च व्यञ्जक. त्वस्य वाचकशक्तिनिबन्धनत्वाभावे च । गीतवदिति । गीतेन तुल्यमित्यर्थः । न चैवं एवं न भवति च । इतीति हेतौ । वाच्यनिष्ठेव वाच्यविषयिकैव । प्रागित्यादि ।