पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०४
सटीकलोचनोपेतध्वन्यालोके


न हि विभावानुभावव्यभिचारिण एव रसा इति कस्यचिदवगमः। अतएव च विभावादिप्रतीत्यविनाभाविनी रसादीनां प्रतीतिरिति तत्प्रतीत्योः कार्य. कारणभावेन व्यवस्थानात्क्रमोऽवश्यम्भावी । स तु लाघवान्न प्रकाश्यते 'इत्यलक्ष्यक्रमा एव सन्तो व्यङ्गया रसादयः' इत्युक्तम् ।


लोचनम्

वाच्यानां धर्मास्तथासति द्वौ पक्षौ रूपादिसदृशा वा स्युर्माणिक्यगतजात्यत्वसदृशा वा। न तावत्प्रथमः पक्षः, सर्वान् प्रति तथानवभासात् । नापि द्वितीयः, जात्यत्ववदनति. रिक्तत्वेनाप्रकाशनात् । एष च हेतुराद्येऽपि पक्षे सङ्गच्छत एव । तदाह-स्यान्मत- मित्यादिना न चैवमित्यन्तेन । एतदेव समर्थयति- -न हीति । अत एव चेति । यतो न वाच्यधर्मत्वेन रसादीनां प्रतीतिः, यतश्च तत्प्रतीतौ वाच्यप्रतीतिः सर्वथानु- पयोगिनी तत एव हेतोः क्रमेणावश्यं भाव्यं, सहभूतयोरुपकारायोगात् । स तु सहृदयभावनाभ्यासान्न लक्ष्यते अन्यथा तु लक्ष्येतापीत्युक्तं प्राक् । यस्यापि प्रती- तिविशेषात्मैव रस इत्युक्तिः, प्राक्तस्यापि व्यपदेशिवत्त्वाद्रसादीनां प्रतीतिरित्ये- वमन्यत्र ।

 ननु भवन्तु वाच्यादतिरिक्ता रसादयस्तत्रापि क्रमो न लक्ष्यत इति तावत्त्वयैवोक्तम्। तत्कल्पने च प्रमाणं नास्ति । अन्वयव्यतिरेकाभ्यामर्थप्रतीतिमन्तरेण रसप्रतीत्युदयस्य

बालप्रिया

वमित्यन्तं ग्रन्थमित्यर्थः । स्वमतमाह-अस्मादित्यादि । तथाऽनवभासादित्यन्तेन 'प्रतिभासेरन्न चैवमित्यन्तग्रन्थो विवृतः । अप्रकाशनादिति । अप्रकाशादित्यर्थः । आद्येऽपि पक्ष इति। रूपादिसदृशा वा इति पक्षेऽपीत्यर्थः । रूपादीनामनतिरिक्तत्वेन प्रकाशनादिति भावः । इत्यन्तेनेति । इतीति शेषः। आहुरिति पूर्वेण सम्बन्धः । वृत्ता- वत एवेत्येको हेतुः व्यवस्थानादित्यपरश्चेत्याशयेन व्याचष्टे-यतो नेत्यादि । तत्प्र- तीतौ रसप्रतीतौ । सर्वथेति । नेत्यस्यानुषङ्गः । नानुपयोगिनी उपयोगिन्येव । क्रमोऽवश्यंभावीत्यस्य विवरणम्-क्रमेणावश्यं भाव्यमिति । कुत इत्यत्राह- सहेति । उपकारायोगादिति। उपकार्योपकारकभावायोगादित्यर्थः । यस्यापीति। उक्तिः प्रागित्यनेन सम्बन्धः । तस्यापीति । मते इति शेषः। व्यपदेशिवत्वा- दिति । राहोश्शिर इत्यादिवद्भेदारोपादित्यर्थः । इतीति । इति व्यवहार इत्यर्थः ।

 'ननु शब्द एवेत्यादिग्रन्थमवतारयति-नन्वित्यादि । इत्युक्तमिति । तदु. क्त्या क्रमोऽस्तीत्यावेदितमिति भावः। तत्कल्पन इति । क्रमकल्पन इत्यर्थः। रसप्रती- त्युदयस्येत्यस्य दर्शनादित्यनेन सम्बन्धः । कृतस्येत्युदयस्येत्यस्य विशेषणम् । फलित- माह-ततश्चेत्यादि । सहैव युगपदेव । वचनेत्यादि । वचनव्यापारो वाच्यार्थप्रतिपा-