पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०३
तृतीयोद्द्योतः


 स्यान्मतम् ; रत्नानामिव । जात्यत्वं प्रतिपत्तविशेषतः संवेद्यं वाच्यानां रसादिरूपत्वमिति । नैवम् । यतो यथा जात्यत्वेन प्रतिभासमाने रत्ने रत्नस्वरूपानतिरिक्तत्वमेव तस्य लक्ष्यते तथा रसादी- नामपि विभावानुभावादिरूपवाच्याव्यतिरिक्तत्वमेव लक्ष्येत । न चैवम् ।


लोचनम्

 ननु यद्यस्य धर्मरूपं तत्तत्प्रतिभाने सर्वस्य नियमेन भातीत्यनैकान्तिकमेतत् । माणिक्यधर्मो हि जात्यत्वलक्षणो विशेषो न तत्प्रतिभासेऽपि सर्वस्य नियमेन भाती- त्याशङ्कते-स्यादिति । एतत्परिहरति-नैवमिति । एतदुक्तं भवति-अत्यन्तो. न्मग्नस्वभावत्वे सति तद्धर्मत्वादिति विशेषणमस्माभिः कृतम् । उन्मग्नरूपता च न रूपवज्जात्यत्वस्य, अत्यन्तलीनस्वभावत्वात् । रसादीनां चोन्ममतास्त्येवेत्येवं केचि. देतं ग्रन्थमनैषुः । अस्मद्गुरवस्त्वाहुः-अत्रोच्यत इत्यनेनेदमुच्यते-यदि रसादयो

बालप्रिया

जातिविशेषः । यथा मालत्यां “जात्यैन चन्द्रमणिनेव महीधरस्येति । 'प्रतिपत्तृवि- शेषतः ज्ञातृविशेषेण का।

 स्यादित्यादिग्रन्थमवतारयति लोचने-नन्वित्यादि । यदित्यादि । यत् गौरत्वादि। यस्य शरीरादेः । तत् गौरत्वादि । तत्प्रतिभाने शरीरादिप्रतिभासे इत्येतदिति सम्बन्धः इति नियम इत्यर्थः । यत्र यत्र यद्धर्मत्वं तत्र तत्र प्रत्य- क्षीयतद्विषयिताव्यापकविषयिताकत्वमिति व्याप्तिरिति यावत् । अनैकान्तिक- मिति । व्यभिचारीत्यर्थः । कुत्र व्यभिचार इत्यत आह- -माणिक्येत्यादि । तत्प्र- तिभासे माणिक्यभाने । न भातीति । तथा च माणिक्यधर्मे जात्यत्वे व्यभिचार इति भावः । वृत्तौ-यथेत्यादि । 'जात्यत्वेन जात्यत्वप्रकारेण । 'भासमाने प्रति. पत्तृविशेषगतसाक्षात्कारविषये । रत्नस्वरूपानतिरिक्तत्वं रत्नादभिन्नत्वम् । 'तस्य' जात्यत्वस्य । 'लक्ष्यते' ज्ञायते । 'विभावे ति । विभावानुभावादिरूपं यद्वाच्यं तस्मा- दव्यतिरिक्तत्वमित्यर्थः । न चैवमिति । एवं न लक्ष्यते इत्यर्थः । कुत इत्यत्राह- 'न हीत्यादि । न ह्यवगम इति सम्बन्धः । यत इत्यादि न चैवमित्यन्तस्य परिहार• ग्रन्थस्य भावमाह लोचने-एतदुक्तमित्यादि । अत्यन्तोन्मग्नस्वभावत्व इति । स्वाश्रयाद्भिन्नत्वेन प्रतीयमानत्व इत्यर्थः । सतीति । इत्येतदिति शेषः। तद्धर्मत्वा- दित्यादि । तद्धर्मत्वादित्यस्य विशेषणमित्यर्थः । कृतमिति । अभिमतमित्यर्थः । यत्र यत्र तद्धर्मत्वभित्यत्र अत्यन्तोन्मनस्वभावत्वे सतीत्यपि निविष्टमस्तीत्यर्थः । इत्थं च जात्यत्वेन व्यभिचार इत्याह-उन्मग्नेति । उन्मग्नरूपता यथारूपस्य गौरत्वादेरस्ति तथा जात्यत्वस्य नेत्यर्थः। अत्यन्तलीनस्वभावत्वात् अनुन्मग्नस्वभावत्वात् । स्वाश्रयाद्भिन्नत्वेनाप्रतीयमानत्वादिति यावत् । एतं ग्रन्थमिति । यत इत्यादि न चै.