पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०२
सटीकलोचनोपेतध्वन्यालोके


 अत्र केचिदाहुः- 'गुणगुणिव्यवहारो रसादीनामितिवृत्तादिभिः सह युक्तः, न तु जीवशरीरव्यवहारः । रसादिमयं हि वाच्यं प्रतिभासते न तु रसादिमिः पृथग्भूतम्' इति । अत्रोच्यते-यदि रसादिमयमेव वाच्यं यथा गौरत्वमयं शरीरम् । एवं सति यथा शरीरे प्रतिभासमाने नियमेनैव गौरत्वं प्रतिभासते सर्वस्य तथा वाच्येन सहैव रसादयोऽपि सहृदयस्यासहृदयस्य च प्रतिभासेरन् । न चैवम् ; तथा चैतत्प्रतिपादि- तमेव प्रथमोद्द्योते ।


लोचनम्

 इत्यादिना रसोपयोगजीवितः शब्दवृत्तिलक्षणो व्यवहार उक्तः । शरीरभूत. मिति । 'इतिवृत्तं हि नाट्यस्य शरीरं' इति मुनिः । नाट्यं च रस एवेत्युक्तं प्राक् ।

 गुणगुणिव्यवहार इति । अत्यन्तसम्मिश्रतया प्रतिभासनाद्धर्मधर्मिव्यवहारो युक्तः । न त्विति । क्रमस्यासंवेदनादिति भावः । प्रथमेति । 'शब्दार्थशासनज्ञान- मात्रेणैव न वेद्यते' इत्यादिना प्रतिपादितमदः ।

बालप्रिया

 कारिकायामर्थशब्दयोः रसाद्यनुगुणत्वेन औचित्यवान् व्यवहारो यः, एता वृत्तयः एताः द्विविधाः स्थिताश्चेत्यन्वयः । लोचने-रसोपयोगजीवित इति । रसोप- योग एव जीवितं यस्य स इत्यर्थः । शेषं सर्वं स्पष्टम् । 'गुणगुणिव्यवहार' इत्यस्य व्याख्यानम्-धर्मधर्मिव्यवहार इति। अत्र हेतुं दर्शयति-अत्यन्तेत्यादि । गुणगुणिनोरिव रसादिवाच्ययोरिति शेषः। अत्र गुणस्थानीयो रसादिः गुणिस्थानीय इतिवृत्तादिरूपो वाच्यार्थः । न तु पृथग्भूतमित्यत्र हेतुमाह-क्रमस्यासंवेदना. दिति । वाच्यप्रतीतेः रसादिप्रतीतेश्चेति शेषः। वृत्तौ-'यदी'त्याद्यनुवादः । अत्र दृष्टान्तमाह-'यथेत्यादि । 'गौरत्वमयं शरीर मिति गुणगुणिनोस्तादारम्येन व्यव- हारः । 'एवं सतीति । वाच्यस्य रसादिमयत्वे सतीत्यर्थः । प्रतिभासेरनित्यनेनास्य सम्बन्धः । दृष्टान्तप्रदर्शनपूर्वकमाह-'यथेत्यादि । 'नियमेनैव भासत' इति । द्रव्य- प्रत्यक्षस्य तद्गतरूपविषयकत्वनियमादिति भावः। 'तथेति । नियमेनैवेत्यस्यानु. षङ्गः। 'प्रतिभासेरन्निति । यदि रसादिमयो वाच्यार्थस्तर्हि स नियमतो रसादिभिः सहैव सर्वैः प्रतीयमानस्स्यादित्यर्थः । अत्रेष्टापत्तिं परिहरति-'न चैव मिति । 'स्यान्मतमिति शङ्काद्योतकम् । जात्यत्वमिवेति योजना । जात्यत्वमुत्कृष्टरत्नगतो


 १. भरतना.,