पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४०१
तृतीयोद्द्योतः


 वाच्यानामितिवृत्तविशेषाणां वाचकानां च तद्विषयाणां रसादिविष. येणौचित्येन यद्योजनमेतन्महाकवेर्मुख्यं कर्म । अयमेव हि महाकवेर्मुख्यो व्यापारो यद्रसादीनेव मुख्यतया काव्यार्थीकृत्य तव्द्यक्त्यनुगुणत्वेन शब्दा- नामर्थानां चोपनिबन्धनम् ।

 "एतच्च रसादितात्पर्येण काव्यनिबन्धनं भरतादावपि सुप्रसिद्धमेवेति प्रतिपादयितुमाह-

रसाद्यनुगुणत्वेन व्यवहारोऽर्थशब्दयोः ।
औचित्यवान्यस्ता एता वृत्तयो द्विविधाः स्थिताः ॥३३॥

 व्यवहारो हि वृत्तिरित्युच्यते । तत्र रसानुगुण औचित्यवान्वाच्या. अयो यो व्यवहारस्ता एताः कैशिक्याद्या वृत्तयः । वाचकाश्रयाश्चो. पनागरिकाद्याः। वृत्तयो हि रसादितात्पर्येण संनिवेशिताः कामपि नाट्यस्य काव्यस्य च च्छायामावहन्ति । रसादयो हि द्वयोरपि तयोर्जीवभूताः । इतिवृत्तादि तु शरीरभूतमेव ।


लोचनम्

उपयोगित्वम् । मुख्यमिति । 'आलोकार्थी' इत्यत्र यदुक्तं तदेवोपसंहृतम् । महा- कवेरिति सिद्धवत्फलनिरूपणम् । एवं हि महाकवित्वं नान्यथेत्यर्थः । इतिवृत्तवि. शेषाणामिति। इतिवृत्तं हि प्रबन्धवाच्यं तस्य विशेषाः प्रागुक्ताः-'विभावभावानुभाव. सञ्चार्यौचित्यचारुणः । विधिः कथाशरीरस्यः इत्यादिना । काव्यार्थीकृत्येति । अन्यथा लौकिकशास्त्रीयवाक्यार्थेभ्यः कः काव्यार्थस्य विशेषः । एतच्च निर्णीतमाद्यो. द्द्योते-'काव्यस्यात्मा स एवार्थः' इत्यत्रान्तरे ॥ ३२ ॥

 एतच्चेति । यदस्माभिरुक्तमित्यर्थः । भरतादावित्यादिग्रहणादलङ्कारशास्त्रेषु परुषाद्या वृत्तय इत्युक्तं भवति । द्वयोरपि तयोरिति । वृत्तिलक्षणयोर्व्यवहारयोरि- त्यर्थः । जीवभूता इति । 'वृत्तयः काव्यमातृकाः' इति ब्रुवाणेन मुनिना रस्रोचिते- तिवृत्तसमाश्रयणोपदेशेन रसस्यैव जीवितत्वमुक्तम् । भामहादिभिश्व-

स्वादुकाव्यरसोन्मिश्रं वाक्यार्थमुपभुञ्जते ।
प्रथमालीढमधवः पिबन्ति कटुभेषजम् ॥

बालप्रिया

व्याचष्टे-व्यञ्जकानीत्यादि । आलोकार्थीत्यादि। आलोकार्थीत्यादिकारिकया प्रथमोद्योते यदुक्तं तदेवानया कारिकया उपसंहृतमित्यर्थः ॥ ३२ ॥

 ५१ ध्व