विज्ञायेत्थं रसादीनामविरोधविरोधयोः । |
इत्थमनेनानन्तरोक्तेन प्रकारेण रसादीनां रसभावतदाभासानां परस्परं विरोधस्याविरोधस्य च विषयं विज्ञाय सुकविः काव्यविषये प्रतिभातिश- ययुक्तः काव्यं कुर्वन्न क्वचिन्मुह्यति ।
एवं रसादिषु विरोधाविरोधनिरूपणस्योपयोगित्वं प्रतिपाद्य व्यञ्जक. वाच्यवाचकनिरूपणस्यापि तद्विषयस्य तत्पतिपाद्यते-
वाच्यानां वाचकानां च यदौचित्येन योजनम् । |
लोचनम्
परहृदयानुप्रवेशेनोक्तम् ; न खल्वलोकवैराग्यकौतुकरुचिं प्रकटयामः, अपि तु यस्य कृते सर्वमभ्यर्थ्यते तदेवेदं चलमिति ; तत्र मत्ताङ्गनापाङ्गभङ्गस्य शृङ्गारं प्रति सम्भाव्यमान- विभावानुभावत्वेनाङ्गस्य लोलतायामुपमानतोक्तेति प्रियतमाकटाक्षो हि सर्वस्याभिलषणीय इति च तत्प्रीत्या प्रवृत्तिमान् गुडजिह्विकया प्रसक्तानुप्रसक्तवस्तुतत्त्वसंवेदनेन वैराग्ये पर्यवस्यति विनेयः ॥ ३० ॥
तदेतदुपसंहरन्नस्योक्तस्य प्रकरणस्य फलमाह- -विज्ञायेत्थमिति ॥ ३१ ॥
रसादिषु रसादिविषये व्यञ्जकानि यानि वाच्यानि विभावादीनि वाचकानि च
सुप्तिडादीनि तेषां यन्निरूपणं तस्येति । तद्विषयस्येति । रसादिविषयस्य । तदिति
बालप्रिया
इत्यनेनेत्यर्थः । परेति । पराभिमतार्थाङ्कीकारेणेत्यर्थः। अलीकेति । अलीका असत्या या वैराग्यकौतुके रुचिस्तामित्यर्थः । यस्येति । जीवितस्येत्यर्थः । तत्र जीविते । तत्र लोलतायामुपमानतेति सम्बन्धः। तन्निरूपितं लोलतानिमित्तकोपमाप्रतियोगित्वमि- त्यर्थः । सम्भाव्येति । सम्भाव्यमानेन नायकविभावत्वेन नायिकानुभावत्वेन च हेतुना शृङ्गाराङ्गस्येत्यर्थः । तदुक्तेः फलमाह-प्रियेत्यादि । तत्प्रतीत्येति कटाक्ष- स्योपमानत्वप्रतीत्येत्यर्थः । तत्प्रीत्या इति च पाठः । विनेय इति । व्युत्पाद्यो राज- कुमारादिरित्यर्थः । तथा च यया कयाऽपि विधया शृङ्गाराङ्गयोजनं काव्यशोभाकर- मिति भावः ॥३०॥
'विज्ञायेत्यादिकारिकामवतारयति-तदेतदित्यादि ॥ ३१ ॥
रसादिष्वित्यस्य विवरणम्-रसादिविषये इति । 'व्यञ्जकवाच्यै'त्यादिग्रन्थं