पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९९
तृतीयोद्योतः


विनेयजनहितार्थमेव मुनिभिरवतारिता ।

 किं च शृङ्गारस्य सकलजनमनोहराभिरामस्वात्तदङ्गसमावेशः काव्ये शोभातिशयं पुष्यतीत्यनेनापि प्रकारेण विरोधिनि रसे शृङ्गाराङ्गसमावेशो न विरोधी । ततश्च

सत्यं मनोरमा रामाः सत्यं रम्या विभूतयः ।
किं तु मत्ताङ्गनापाङ्गमङ्गलोलं हि जीवितम् ॥

 इत्यादिषु नास्ति रसविरोधदोषः ।


लोचनम्

मुनिभिरिति-भरतादिभिरित्यर्थः । एतच्च प्रभुमित्रसम्मितेभ्यः शास्त्रेतिहासेभ्यः प्रीतिपूर्वकं जायासम्मितत्वेन नाटयकाव्यगतं व्युत्पत्तिकारित्वं पूर्वमेव निरूपितमस्मा. भिरिति न पुनरुक्तभयादिह लिखितम् ।

 ननु श्रृङ्गाराङ्गताभङ्गया यद्विभावादिनिरूपणमेतावतैव किं विनेयोन्मुखीकारः । न ; अस्ति प्रकारान्तरं, तदाह-किं चेति । शोभातिशयमिति । अलङ्कारविशेषमुपमा- प्रभृतिं पुष्यति सुन्दरीकरोतीत्यर्थः । यथोक्तम्-'काव्यशोभायाः कर्तारो धर्मा गुणा- स्तदतिशयहेतवस्त्वलङ्कारा' इति । मत्ताङ्गनेति । अत्र हि शान्तविभावे सर्वस्यानि- त्यत्वे वर्ण्यमाने न कस्यचिद्विभावस्य श्रृङ्गारभङ्गया निबन्धः कृतः, किं तु सत्यमिति

बालप्रिया

'शृङ्गारे'त्यादि । तत्र सुखमित्येतद्वयाचष्टे-रसनेति । एतच्चेत्यादि । प्रभुमित्र- सम्मितेभ्यः शास्त्रेतिहासेभ्यः तान्यपेक्ष्य । नाटयकाव्यगतमेतद्व्युत्पत्तिका- रित्वं जायासम्मितत्वेन प्रीतिपूर्वकमिति पूर्वमेवास्माभिर्निरूपितमिति सम्बन्धः। इती. ति हेतौ।

 किञ्चेत्यादिकमवतारयति-नन्वित्यादि । शृङ्गाराङ्गतेति । शृङ्गारविभावानु- भावतेत्यर्थः । समाधत्ते-नेति । तदिति । प्रकारान्तरमित्यर्थः । शोभाया अति. शयो येनेति व्युत्पत्तिमभिप्रेत्य प्रकृतानुगुणं व्याचष्टे-्अलङ्कारेत्यादि । 'सत्य'मि. त्यादि । सत्यमित्यर्धाङ्कीकारे । 'रामाः' रमण्यः कामा इति च पाठः 'विभूतयः' ऐश्व- र्याणि । 'मत्तेति । मत्ता यौवनादिमदयुक्ता या अङ्गना प्रशस्ताङ्गा नारी तस्याः अपाङ्ग. भङ्गः कटाक्षः स इव लोलमस्थिरम् । 'ही'ति प्रसिद्धौ । रामादीनां मनोरमत्वेऽपि सत्येव जाविते जनैः स्वोपभोगायोपादेयास्ताः जीवितं चास्थिरमिति किङ्कृत तासा. मुपादेयत्वमतो रम्यत्वेऽपि तास्सर्वा निष्फला एवेति भावः । उक्तमर्थं लोचने विवृ. णोति-अत्रेत्यादि । सर्वस्यानित्यत्व इति । समस्तानित्यत्वे इति च पाठः । सर्वजीवितस्यास्थिरत्वे इत्यर्थः । न कृत इति सम्बन्धः। कस्यचिद्विभावस्य शान्तादिविभावस्य । श्रृङ्गारभङ्गया शृङ्गारविभावत्वयोजनेन । सत्यमितीति ।