पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९८
सटीकलोचनोपेतध्वन्यालोके


 शृङ्गारविरुद्धरसस्पर्शः शृङ्गाराङ्गानां यः स न केवलमविरोधलक्ष- णयोगे सति न दुष्यति यावद्विनेयानुन्मुखीकर्तुं काव्यशोभार्थमेव वा क्रियमाणो न दुष्यति । शृङ्गाररसाङ्गैरुन्मुखीकृताः सन्तो हि विनेयाः सुखं विनयोपदेशान् गृह्णन्ति । सदाचारोपदेशरूपा हि नाटकादिगोष्ठी


लोचनम्

 इत्यत्र शान्तविभावानुभावानामपि शृङ्गारभङ्गया निरूपणम् । विनेयानुन्मुखीकर्तुं या काव्यशोभा तदर्थं नैव दुष्यतीति सम्बन्धः । वाग्रहणेन पक्षान्तरमुच्यते । तदेव व्याचष्टे न केवलमिति । वाशब्दस्यतद्व्याख्यानम् । अविरोधलक्षणं परिपोषपरि- हारादि पूर्वोक्तम् । विनेयानुन्मुखीकर्तुं या काव्यशोभा तदर्थमपि वा विरुद्धसमावेशः न केवलं पूर्वोक्तैः प्रकारैः, न तु काव्यशोभा विनेयोन्मुखीकरणमन्तरेणास्ते, व्यवधानाव्य. वधाने नापि लभ्येते यथान्यैर्ख्याते । सुखमिति । रञ्जनापुरःसरमित्यर्थः। ननु काव्यं क्रीडारूपं क्व च वेदादिगोचरा उपदेशकथा इत्याशङ्कयाह-सदाचारेति ।

बालप्रिया

ध्यातृध्यानध्येयानि भासन्ते तदनेन दर्शितम् । अपिशब्द आपाततो विरोधं द्योतयति। विलीयते विलयनं नामान्तःकरणस्य तद्वृत्तेर्वा अभानम् । अनेन ध्येयमात्रविषयक ज्ञानं दर्शितम् । यद्वा-विलीयापि विलीयते द्रवीभूयापि द्रवीभवति अत्यन्तं द्रुता भव. तीत्यर्थः। भक्तानां चित्तद्रुतिः प्रसिद्धा पुत्रिकापक्षे तु चन्द्रकरस्पर्शेन किश्चिदार्द्रीभूय पुनस्सर्वावयवावच्छेदेनार्द्रीभवतीत्यर्थः । अत्र संविदादौ विरहतप्तनायिकात्वादिप्र- तीत्या शृङ्गारविभावत्वादिप्राप्तिः, तदाह-शृङ्गारभङ्गया निरूपणमिति । पूर्वार्ध व्याचष्टे-विनेयानित्यादि । एवकारस्य नञा सम्बन्ध इति दर्शयति-नैवेति । पक्षान्तरमिति । अविरोधी विरोधी वेत्यादिकारिकाभिरुक्तभ्यः पक्षेभ्योऽन्य इत्यर्थः, न त्वत्रैव पक्षद्वयद्योतक इति भावः । एतद्व्याख्यानमिति । स न केवलमित्यादि. व्याख्यानमित्यर्थः । अविरोधलक्षणयोग इत्यत्राविरोधलक्षणपदं व्याचष्टे-परिपोषे. त्यादि। 'विनेयानित्यादि 'तदर्थमपि वेत्यन्तं 'विनेयानित्यादिवृत्तेर्विवरणं, 'सक्रिय- माण' इत्यस्य विवरणं 'विरुद्धसमावेश' इति । फलितमाह-न केवलं पूर्वोक्तैः प्रकारैरिति । विरुद्धसमावेशो न दुष्यतीति शेषः। किन्त्वेवं क्रियमाणोऽपि न दुष्य- तीति भावः । विनेयानुन्मुखीकर्तुं या काव्यशोभेत्युक्तमुपपादनति-न त्वित्यादि । नास्ते इत्यन्वयः । न भवतीत्यर्थः । व्यवधानेति । रसान्तरेण यद्वयववधानमव्यव- धानं वा तेनापीत्यर्थः । क्वचिल्लभ्यत इति । काव्यशोभा नेत्यनयोरनुषङ्गः । यथेत्यादि । तथेति पूर्वेण सम्बन्धः। अन्यव्याख्यानञ्च विनेयानुन्मुखीकर्तुं वा का- व्यशोभार्थं वेति विकल्पपरं बोध्यम् । वृत्तौ 'विनेयानित्यायुक्तस्यैव विवरणम्-