पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९७
तृतीयोद्द्योतः


द्रतेश्च स्वल्पेनापि निमित्तेन भङ्गसम्भवात्सुकुमारतमः सर्वेभ्यो रसेभ्यो मनागपि विरोघिसमावेशं न सहते ।

अवधानातिशयवान्रसे तत्रैव सत्कविः ।
भवेतस्मिन् प्रमादो हि झटित्येवोपलक्ष्यते ॥ २९ ॥

 तत्रैव च रसे सर्वेभ्योऽपि रसेम्यः सौकुमार्यातिशययोगिनि कविर- वधानवान् प्रयत्नवान्स्यात् । तत्र हि प्रमाद्यतस्तस्य सहृदयमध्ये क्षिप्रमेवा- वज्ञानविषयता भवति । शृङ्गाररसो हि संसारिणां नियमेनानुभवविषय- त्वात्सर्वरसेभ्यः कमनीयतया प्रधानभूतः ।

एवं च सति-

विनेयानुन्मुखीकर्तुं काव्यशोभार्थमेव वा ।
तद्विरुद्धरसस्पर्शस्तदङ्गानां न दुष्यति ।। ३० ॥


लोचनम्

स्तावद्रसजातीयः ततोऽपि करुणस्ततोऽपि शृङ्गार इति तमप्रत्ययः ॥ २८-२९ ॥

 एवं चेति । यतोऽसौ सर्वसंवादीत्यर्थः। तदिति । शृङ्गारस्य विरुद्धा ये शान्तादयस्तेष्वपि तदङ्गानां शृङ्गारागानां सम्बन्धी स्पर्शो न दुष्टः । तया भङ्गया रसान्तरगता अपि विभावानुभावाद्या वर्णनीया यया शृङ्गाराङ्गभावमुपागमन् । यथा ममैव स्तोत्रे-

त्वा चन्द्रचूडं सहसा स्पृशन्ती प्राणेश्वरं गाढवियोगतप्ता ।
सा चन्द्रकान्ताकृतिपुत्रिकेव संविद्विलीयापि विलीयते मे ।।

बालप्रिया

स' इति कारिकापाठाभिप्रायेण व्याचष्टे- -स हीत्यादि । रसजातीय इति । रसत्व- जातिमानित्यर्थः ॥ २८-२९ ॥

 'एवञ्चेत्येतत् व्याचष्टे-यत इति । श्रृङ्गारस्य सर्वानुभवविषयत्वादित्यर्थः । 'विनेयानित्याद्यर्थ व्याख्यास्यन्नादौ तद्विरुद्धत्याद्युत्तरार्धं व्यावष्टे-तदित्यादि । भा- वार्थमाह-तयेत्यादि । रसान्तरेति । शान्तादीत्यर्थः । यया शृङ्गाराङ्गभाव. मुपागमन्निति । यया भङ्गया वर्णनया शृङ्गार विभावादित्वं प्राप्नुवन्तो भवन्तीत्यर्थः अत्रोदाहरणमाह-त्वामित्यादि । गाढवियोगेन गाढं गाढेन वा त्वदस्पर्शेन तप्ता संसारतापमनुभवन्ती। सा विषयान्तरसच्चारिणी मे संवित् अन्तःकरणं तद्वृत्तिर्वा त्वां स्पृशन्ती किश्चिद्विषयीकुर्वाणा विलीय त्वदाकारतारूपत्वसम्बन्धमवाप्य यत्र ज्ञाने ।