पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९६
सटीकलोचनोपेतध्वन्यालोके


 इत्यादौ । अत्र हि शृङ्गारबीभत्सयोस्तदन्योर्वा वीररसव्यवधानेन समावेशो न विरोधी ।

विरोधमविरोधं च सर्वत्रेत्थं निरूपयेत् ।
विशेषतस्तु शृङ्गारे सुकुमारतमो ह्यसौ ॥ २८ ॥

 यथोक्तलक्षणानुसारेण विरोधाविरोधौ सर्वेषु रसेषु प्रबन्धेऽन्यत्र च निरूपयेत्सहृदयः ; विशेषतस्तु शृङ्गारे । स हि रतिपरिपोषात्मकत्वा-


लोचनम्

अन्यथा विभिन्न विषयत्वात्को विरोधः । ननु वीर एवात्र रसो न शृङ्गारो न बीभत्सः, किन्तु रतिजुगुप्से हि वीरं प्रति व्यभिचारीभूते । भवत्वेवम् , तथापि प्रकृतोदाहरणता तावदुपपन्ना। तदाह- -तदङ्गयोर्वेति । तयोरङ्गे तत्स्थायिभावावित्यर्थः। वीर- रसेति । 'वीराः स्वदेहान्' इत्यादिना तदीयोत्साहाद्यवगत्या कर्तृकर्मणोः समस्त- वाक्यार्थानुयायितया प्रतीतिरिति मध्य पाठाभावेऽपि सुतरां वीरस्य व्यवधायकतेति भावः ॥ २७॥

 अन्यत्र चेति मुक्तकादौ । स हि शृङ्गारः सुकुमारतम इति सम्बन्धः । सुकुमार.

बालप्रिया

द्धरित्यर्थः । एतरप्रदर्शनार्थ स्वपदोपादानमिति भावः । तादात्म्येति । प्रतिपत्तुर्द्यो- देहयोरैक्यबुद्धिनिष्पत्तरित्यर्थः । तथा च स्वर्ललनागतस्य शृङ्गारस्य बीभत्सस्य च देहद्वयैक्याभिमानी वीर एक एव विषय इति भावः। तदङ्गयोर्वेति ग्रन्थमवतारय- ति-नन्वित्यादि । वीर एवेति । साहसेन रणमध्यनिपातनाद्यनुभावेनाक्षेपलभ्यगर्वा- दिसञ्चारिणा च वीररस एव प्रतीयत इत्यर्थः । तत्स्थायिभावाविति । श्रृङ्गारबीभ- त्सयोः स्थायिभावौ रतिजुगुप्से इत्यर्थः । इत्यादिनेति । वीरपदेन देहपाताद्यनुभा- वेन चेत्यर्थः । उत्साहादीत्यादिपदेन गर्वादेः परिग्रहः । अवगत्येत्यनन्तरं वीरो रस इति शेषः। वीरव्यवधानं विवृणोति-कर्तृकर्मणारित्यादि । कर्तृकर्मणोः वीर- स्य कर्तुः पतितदेहरूपकर्मणश्च । समस्तेत्यादि । अत्र वाक्यं पदसमुदायः भूरेण्वि- त्यादिवाक्यार्थान्वयितया कर्मणः न वेत्यादिवाक्यार्थान्वयितया कर्तुश्च प्रतीतिरित्यर्थः । इतीति हेतौ । भाव इति । अयमर्थः- भूरेण्वित्यादिविशेषणार्थबोधे बीभत्सस्तद्विशे- ष्यार्थबोधे वीरो, न वेत्यादिविशेषणार्थवोधे शृङ्गारस्तद्विशेष्यार्थबोधे वीरश्चास्वाद्यत इति रीत्या वीरस्य मध्ये मध्ये आस्वादः । श्रुतक्रमेण बोधे त्वादौ बीभत्सो, योजन या बोधे त्वादौ शृङ्गार इति ॥ २७ ॥

 'प्रबन्धेऽन्यत्र चेत्यनान्यत्रपदं व्याचष्टे-मुक्तकादाविति । 'सुकुमारतमो हि