पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९५
तृतीयोद्द्योतः


एतदेव स्थिरीकर्तुमिदमुच्यते-

रसान्तरान्तरितयोरेकवाक्यस्थयोरपि ।
निवर्तते हि रसयोः समावेशे विरोधिता ॥ २७ ।।

 रसान्तरव्यवहितयोरेकप्रबन्धस्थयोर्विरोधिता निवर्तत इत्यत्र न काचिद्रान्तिः । यस्मादेकवाक्यस्थयोरपि रसयोरुक्तया नीत्या विरुद्धता निवर्तते । यथा-

भूरेणुदिग्धान्नवपरिजातमालारजोवासितबाहुमध्याः।
गाढं शिवाभिः परिरभ्यमाणान्सुराङ्गनाश्लिष्टभुजान्तरालाः ॥
सशोणितैः क्रव्यभुजां स्फुरद्भिः पक्षैः खगानामुपवीज्यमानान् ।
संवीजिताश्चन्दनवारिसकैः सुगन्धिभिः कल्पलतादुकूलैः ।।
विमानपर्यङ्कतले निषण्णाः कुतूहलाविष्टतया तदानीम् ।
निर्दिश्यमानाललनाङ्गुलीभिर्वीराः स्वदेहान् पतितानपश्यन् ।।


लोचनम्

 स्थिरीकर्तुमिति । शिष्यबुद्धावित्यर्थः । अपिशब्देन प्रबन्धविषयतया सिद्धो ऽयमर्थ इति दर्शयति-भूरेण्विति । विशेषणैरतीव दूरापेतत्वमसम्भावनास्पदमु. क्तम् । स्वदेहानित्यनेन देहत्वाभिमानादेव तादात्म्यसम्भावनानिष्पत्तेरेकाश्रयत्वमस्ति,

बालप्रिया

 अपिशब्देनेति । 'एकवाक्यस्थयोरपी'त्यपिशब्देनेत्यर्थः । वृत्तौ-भूरेण्वि- त्यादि । इदं काव्यप्रकाशेऽप्युदाहृतम् । वीराः पतितान् स्वदेहानपश्यन्निति सम्बन्धः। यथाक्रमं कुतूहलहेतुगर्भमेकं देहानामपरं वीराणां विशेषणम् । 'दिग्धान्' व्याप्तान् 'वासितेति । सुरभीकृतेत्यर्थः। 'बाहुमध्यं वक्षः। 'क्रव्यभुजां मांसाशिनाम् । चन्द- नधारीणां सेको यत्र तादृशैः। 'कल्पलतादुकूलः कल्पलतोद्भूतपट्टवस्त्रैः, यद्वा-कल्प- लता एव दुकूलानि तैः । 'ललनाः' स्वर्वेश्याः । लोचने-विशेषणैरिति । भूरेण्वित्या- दिदेहविशेषणैरित्यर्थः । असम्भावनास्पदम् स्वीयत्वसम्भावनाया अभावस्य निमि- तम् । दूरापेतत्वं दूरविप्रकृष्टत्वमत्यन्तवैलक्षण्यमिति यावत् । उक्त व्यञ्जितम् । ननु शृङ्गारबीत्भसयोरेकस्मिन्नेकालम्बनकयोरेव विरोधः, एकस्मिन्नेकदैकस्य रतिजुगुप्सयो- रनुदयात् ; प्रकृते च भूरेणुदिग्धत्वादिविशिष्टवीरदेहालम्बनको बीभत्सो दिव्यत्वविशि- ष्टवीरदेहालम्बनकश्च शृङ्गार इति तयोः कथमेकालम्बनकत्मरूपैकाश्रयत्वमिति शङ्कां परिहरन्नाह-स्वेत्यादि । देहत्वाभिमानादिति । वीराणां पतितदेहेषु स्वदेहत्वबु-