पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९४
सटीकलोचनोपेतध्वन्यालोके


परिकल्प्यते तद्वीररौद्रयोरपि तथा प्रसङ्गः । दयावीरादीनां च चित्तवृत्तिवि. शेषाणां सर्वाकारमहङ्काररहितत्वेन शान्तरसप्रभेदत्वम् , इतरथा तु वीर- प्रभेदत्वमिति व्यवस्थाप्यमाने न कश्चिद्विरोधः। तदेवमस्ति शान्तो रसः । तस्य चाविरुद्धरसव्यवधानेन प्रबन्धे विरोधिरससमावेशे सत्यपि निर्विरोधत्वम् । यथा प्रदर्शिते विषये ।


लोचनम्

 इत्यागमपुरःसरं त्रैविध्यमेवाभ्यधात् । तदाह-दयावीरादीनाञ्चत्यादिप्र- हणेन । विषयजुगुप्सारूपत्वाबीभत्सेऽन्तर्भावः शङ्कयते । सा त्वस्य व्यभिचारिणी भवति न तु स्थायितामेति, पर्यन्तनिर्वाहे तस्या मूलत एव विच्छेदात् । आधिकारि- कत्वेन तु शान्तो रसो न निबद्धव्य इति चन्द्रिकाकारः। तच्चेहास्माभिर्न पर्यालोचितं, प्रसङ्गान्तरात् । मोक्षफलत्वेन चायं परमपुरुषार्थनिष्टत्वात्सर्वरसेभ्यः प्रधानतमः । स चायमस्मदुपाध्यायभट्टतौतेन काव्य कौतुके, अस्माभिश्च तद्विवरणे बहुतरकृतनिर्णय पूर्वपक्षसिद्धान्त इत्यलं बहुना ॥ २६ ॥

बालप्रिया

आगमपुरस्सरमिति । ब्रह्मा प्राहेत्युक्तरिति भावः त्रैविध्यमेवेत्येवकारेण दयावीरव्यवच्छेदः । तदाहेति । उक्ताभिप्रायेणाहेत्यर्थः । 'दयावीरादीनां चे तीत्यस्यानन्तरं विषयेत्यादेः पूर्वमादिप्रहणेनेति पाठः सर्वेषु दृष्टग्रन्थेषु दृश्यते, तस्य च विषयेत्यादिना सम्बन्धो न घटते चातोऽत्र धर्मवीरदानवीरयोर्ग्रहणमिति पूरणीयम् । यदि वा तथा ग्रन्थे,पठनीयमिति बोध्यम् । वृत्तौ 'चित्तवृत्तिविशेषाणा'मिति । चर्व्य- माणानामिति शेषः। दयावीरो नाम परोपचिकीर्षाप्रयत्नरूप उत्साहः । 'सर्वाकार- मिति क्रियाविशेषणम् । सर्वथेत्यर्थः । 'अहङ्काररहितत्वेनेति हेतौ तृतीया, रहितत्वे इति च पाठः । नायकस्येति शेषः। 'इतरथा' अहङ्कारसहितत्वे । शान्तस्थायिनो विषयजुगुप्सारूपत्वाच्छान्तस्य बीभत्सेऽन्तर्भाव इति केचित् । तन्मतं प्रसङ्गानिराकरोति लोचने-विषयेत्यादि। विषयजुगुप्सारूपत्वादिति । शान्तस्येति शेषः । अस्ये. त्यपकर्षों वा। शङ्कयत इति। कैश्चिदिति शेषः । वस्तुतो नैवमित्याह-सा त्वि- त्यादि । सा जुगुप्सा । अस्य शान्तस्य। तस्याः जुगुप्सायाः ।शान्तस्य सर्वरसापेक्षयोत्कर्ष इत्याह-मोक्षेत्यादि । स चेति शान्तश्चेत्यर्थः । वह्नित्यादि । बहुतरं यथा तथा कृतनिर्णयौ कृतविचारौ पूर्वपक्षसिद्धान्तौ यस्य सः ॥२६॥ ।