पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९३
तृतीयोद्द्योतः


 यदि नाम सर्वजनानुभवगोचरता तस्य नास्ति नैतावतासावलोक- सामान्यमहानुभावचित्तवृत्तिविशेषः प्रतिक्षेप्तुं शक्यः । न च वीरे तस्या. न्तर्भावः कर्तुं युक्तः । तस्याभिमानमयत्वेन व्यवस्थापनात् । अस्य चाह- ङ्कारप्रशमैकरूपतया स्थितेः । तयोश्चैवंविधविशेषसद्भावेऽपि यद्यैक्यं


लोचनम्

श्लाघ्य इति सोऽपि रसत्वाच्च्यवतामिति तदाह-यदि नामेति । ननु धर्मप्रधा. नोऽसौ वीर एवेति सम्भावयमान आह-न चेति । तस्येति वीरस्य । अभिमान- मयत्वेनेति । उत्साहो ह्यहमेवंविध इत्येवं प्राण इत्यर्थः । अस्य चेति शान्तस्य । तयोश्चेति । ईहामयत्वनिरीहत्वाभ्यामत्यन्तविरुद्धयोरपीति चशब्दार्थः । वीररौ- द्रयोस्त्वत्यन्तविरोधोऽपि नास्ति । समानं रूपं च धर्मार्थकामार्जनोपयोगित्वम् ।

 नन्वेवं दयावीरो धर्मवीरो दानवीरो वा नासौ कश्चित् , शान्तस्यैवेदं नामान्तर- करणम् । तथा हि मुनिः-

दानवीरं धर्मवीरं युद्धवीरं तथैव च ।
रसवीरमपि प्राह ब्रह्मा त्रिविधसम्मितम् ॥

बालप्रिया

वीर एवेति सम्बन्धः । असौ शान्तः धर्मप्रधानो वीरः धर्मवीरः । इतीत्यादि । इति सम्भावनां कुर्वस्तां परिहर्तुमाहेत्यर्थः । वृत्तौ-'न चेत्यादि । 'वीरे' धर्मवीरे। 'तस्यः शान्तस्य न च युक्त इति सम्बन्धः । तस्येति । वीरस्येत्यर्थः । 'अभिमानम. यत्वेन, गर्वमयत्वेन । इममर्थ विवृणोति लोचने-उत्साहो हीत्यादि । उत्साहः वीर- स्थायी। एवंविध इत्यादि सर्वं साधयितुं शक्नोमीत्यादि बुद्धिरेव प्राणा जीवितं यस्य स इत्यर्थः । तयोश्चेति चकारार्थमाह-इहेत्यादि । तद्वीररौद्रयोरपि तथा प्रसङ्ग इत्युक्तं विवृणोति-वीररौद्योरित्यादि । धर्मति । धर्मार्थकामानां यदर्जनं तदुपयोगित्वं समानरूपं चास्तीत्यर्थः । अतस्तयोरैक्यं स्यादिति भावः । दयावीरादीनामित्यादिन- न्धमवतारयति-नन्वित्यादि । एवं वीरशान्तयोरुक्तरीत्या भेदाङ्गीकारे । दयावीर इत्यादि । दयावीरः धर्मवीरान्तर्गतो दानवीरान्तर्गतो वेत्यर्थः। दयावीर इत्यस्यान. न्तरं 'कोऽभिधीयतामिति च पाठः । प्रतिवक्ति-नासावित्यादि । दयावीर इत्यनु- षज्यते । असौ कश्चिन्नेति । धर्मवीरो दानवीरो वा नेत्यर्थः। तर्हि किमात्मक इत्यत्राह-शान्तस्यैवेत्यादि । इदं दयावीर इत्येतत् । शान्तस्यैव नामान्त. रकरणं दयावीरश्शान्त एवान्तर्भूत इत्यर्थः । कुत इत्यत्र मुनिवचनं प्रमाणयति- तथेत्यादि । तथाहीति । दयावीरस्य शान्तान्तर्भावाद्धतीरित्यर्थः त्रैविध्यमेवाभ्य- धादित्यनेनास्य सम्बन्धः ।

 दानवीरमिति । त्रिविधसम्मितमिति । त्रैविध्येन विभक्तमित्यर्थः

 ५० ध्व० !