पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९२
सटीकलोचनोपेतध्वन्यालोके


लोचनम्

इति सूत्रद्वयनीत्या चित्राकारा यमनियमादिचेष्टा राज्यधुरोद्वहनादिलक्षणा वा शान्त- स्यापि जनकादेर्ष्टैवेत्यनुभावसद्भावाद्यमनियमादिमध्यसम्भाव्यमानभूयोव्यभिचारिस- द्भावाच्च प्रतीयत एव ।

 ननु न प्रतीयते नास्य विभावाः सन्तीति चेत्..-न; प्रतीयत एब तावदसौ । तस्य च भवितव्यमेव प्राक्तनकुशलपरिपाकपरमेश्वरानुग्रहाध्यात्मरहस्यशास्त्रवीतराग- परिशीलनादिभिर्विभावैरितीयतैव विभावानुभावव्यभिचारिसद्भावः स्थायो च दर्शितः । ननु तत्र हृदय संवादाभावास्यमानतैव नोपपन्ना । क एवमाह स नास्तीति, यतः प्रतीयत एवेत्युक्तम् ।

 ननु प्रतीयते सर्वस्य श्लाघास्पदं न भवति । तर्हि वीतरागाणां शृङ्गारो न

बालप्रिया

नानावस्थाः, ता भूमय इत्युच्यन्ते। प्रशान्तेत्यादि । "तस्य प्रशान्तवाहितासंस्का. रात् , तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः” इमे योगसूत्रे । अत्राद्यस्येयं भोजवृत्तिः- "तस्य चेतसः उक्तान्निरोधसंस्कारात् प्रशान्तवाहिता भवति परिहृतविक्षेपतया सदृश- प्रवाहपरिणामि चित्तं भवतीत्यर्थः” इति । सूत्रमिदं तृतीये पादे, तच्छिद्रेत्यादि चतुर्थे । अस्यापीयं भोजवृत्तिः-"तस्मिन् समाधौ स्थितस्य छिद्रेष्वन्तरालेषु यानि प्रत्ययान्तराणि व्युत्थानरूपाणि ज्ञानानि तानि, प्राग्भूतेभ्यो व्युत्थानानुभवजेभ्यः संस्कारेभ्यः अहं ममेत्येवंरूपाणि क्षीयमाणेभ्योऽपि भवन्ति” इति । चित्राकारेति । विस्मयावहेत्यर्थः । राज्येत्यादि । चेष्टेति शेषः । अत्र समाधिकाले यमादिचेष्टा व्युत्थानकाले राज्यधुरोद्वहनादिचेष्टेति विभागः । जनकादेरिति । जनकमहाराजो महायोगीति प्रसिद्धिः । इतीति हेतौ। यमेति । यमनियमादीनां योगाङ्गानां मध्ये अन्तरे सम्भाव्यमानाः भूयांसश्च ये व्यभिचारिणः मतिधृतिस्मृत्यादयः, तेषां सम्भ- वादित्यर्थः । प्रतीयत एवेति । शान्तो रस इति शेषः ।

 शङ्कते-जन्वित्यादि । न प्रतीयत इति । शान्त इति शेषः । कुत इत्यत्राह- नास्येत्यादि । समाधत्ते-नेति । के वा विभावा इत्यत्राह--तस्येत्यादि । तस्य च विभावैर्भवितव्यमेवेत्यन्वयः । तानाह-प्राक्तनेत्यादि । प्राक्तनानां कुशलानां सत्क. र्मणां परिपाकः तथा परमेश्वरानुग्रहः, तथाऽध्यात्मरहस्यशास्त्रेषु वेदान्तादिषु वीतरा- गेषु च परिशीलनं तदादिभिरित्यर्थः । उपसंहरति-इतीत्यादि । इयतैव उक्तप्रका- रेणैव । शङ्कते-नम्विति । तत्र शान्ते । हृदयेति । प्रतिपत्तॄणामिति शेषः। समाधत्तं- क इति । सः हृदयसम्वादः उक्तमिति । वृत्तिकृतेति शेषः ।

 'यदि नामे'त्यादिग्रन्थमवतारयति-नन्वित्यादि । प्रतीयत इति शान्त इति शेषः । विशेषमाह-सर्वस्येति । प्रतिवन्द्या उत्तरमाह-तर्हीत्यादि । सोऽपि शृङ्गारोऽपि । तदाहेति । तदभिप्रायेणाहेत्यर्थः । नन्वित्यादि । असौ धर्मप्रधानो