पृष्ठम्:ध्वन्यालोकः - लोचनबालप्रियोपेतः.pdf/४७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९१
तृतीयोद्द्योतः


लोचनम्

अन्ये तु-

स्वं स्वं निमित्तमासाद्य शान्ताद्धावः प्रवर्तते ।
पुनर्निमित्तापाये तु शान्त एव प्रलीयते ॥

 इति भरतवाक्यं दृष्टवन्तः सर्वरससामान्यस्वाभावं शान्तमाचक्षाणा अनुपजात- विशेषान्तरचित्तवृत्तिरूपं शान्तस्य स्थायिभावं मन्यन्ते । एतच्च नातीवास्मत्पक्षा- द्दूरम् । प्रागभावप्रध्वंसाभावकृतस्तु विशेषः । युक्तश्च प्रध्वंस एव तृष्णानाम् । यथोक्तम्-'वीतरागजन्मादर्शनात्' इति । प्रतीयत एवेति । मुनिनाप्यङ्गीक्रियत एव 'क्वचिच्छमः' इत्यादि वदता । न च तदीया पर्यन्तावस्था वर्णनीया येन सर्व- चेष्टोपरमादनुभावाभावेनाप्रतीयमानता स्यात् । 'शृङ्गारादेरपि फलभूमाववर्णनीयतैव पूर्वभूमौ तु 'तस्य प्रशान्तवाहिता संस्कारात् । तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः'

बालप्रिया

चित्तवृत्तिविशेषो यदि विवक्षितस्तदेति यावत् । अस्मत्पक्ष एवायमिति । निर्वेद- रूपचित्तवृत्तिविशेषे एव पर्यवसानादिति भावः ।

 स्वं स्वमिति । षष्ठाध्यायान्तिमभागस्थोऽयं श्लोकः । अस्मात्पूर्वोऽयं श्लोकः-

भावा विकारा रत्याद्याः शान्तस्तु प्रकृतिर्मतः ।
विकारः प्रकृतेर्जातः पुनस्तत्रैव लीयते ॥ इति ।

 स्वमिति । स्वं स्वीयम् । निमित्तम् वनितादिरूपम् । शान्तान्निर्विकारादन्तः- करणरूपात्प्रकृतेः। भावः रत्यादिः। अनुपेति । अनुपजातविशेषा बाह्यवनितादि- विषयविशेषानाश्रया आन्तरी आत्मविषयिका च या चित्तवृत्तिः, तद्रूपमित्यर्थः । एतदिति । उक्तमतमित्यर्थः । नातीवेत्यादि । अस्मत्पक्षसनिकृष्टमित्यर्थः । प्राग- भावेति । पक्षस्यास्य सर्वचित्तवृत्तिप्रागभावे पर्यवसानमस्मत्पक्षस्य तु सर्वचित्तवृत्तिप्र- ध्वंसाभाव इति विशेष इत्यर्थः । युक्तश्चेत्यादि । तृष्णाप्रध्वंसपक्ष एव युक्त इत्यर्थः । यथोक्तमिति । सर्वासां तृष्णानां प्रध्वंसो भवतीत्येतदुक्तमित्यर्थः । न्यायसूत्रकृतेति- शेषः । वीतेति । तृतीयाध्यायप्रथमाह्निकस्थमिदं सूत्रम् । वीतरागस्य रागादिरहि- तस्य । जन्मनः अदर्शनात् यतो जन्म न भवति, तस्मादित्यर्थः । किन्तु सराग. स्यैव जन्मेति भावः । आत्मनो नित्यत्वसाधकमिदम् । प्रतीयत एवेत्येतदन्यथाऽपि व्याचष्टे-मुनिनेत्यादि । वदता मुनिनेत्यन्वयः । शमपदमत्र योगेन निर्वेदपरमिति भावः । चेष्टोपरमादयो हि शान्तस्यानुभावा वक्तव्यास्ते च न प्रयोगयोग्याः । अत- स्तस्यानुभावैरप्रतीयमानतेति केचिद्वदन्ति, तन्मतन्निराकर्तुमाह-न चेत्यादि। तदी- येति । शान्तसम्बन्धिनीत्यर्थः । पर्यन्तावस्था निरीहावस्था । अप्रतीयमानतेति। शान्तस्येति शेषः । फलभूमाविति । सुरतावस्थायामित्यर्थः । पूर्वभूमावित्या. दि। पूर्वभूमौ तु शान्तस्यापि जनकादेश्चेष्टा दृष्टैवेति सम्बन्धः। चित्तस्य क्षिप्ताद्या